________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / 41 ऽग्नि-राजादिना यदाऽपहृतं भवति भोगदानादिना वा क्षीयत इति तदपहारे क्षये वा सति तत्स्वामित्वप्रयुक्तं महेश्वरत्वमपि नावतिष्टते, भगवास्तु तस्करायनपनेय-भगदानाद्यविनाशिविद्याधनेन महेश्वरः सर्वदाऽवतिष्ठत एवेति; अथवा अन्तःकरणावच्छिन्नं चैतन्य जीवोऽविद्यावच्छिन्नं चैतन्यमीवर इति वेदान्तनये महेश्वरोऽविद्यालक्षणोपाधिसत्तासमकालीनसत्ताकत्वादविद्याविलये विगच्छतीत्यविद्यामहेश्वरो भवति, जैनमते तु जिनो विद्यामहेश्वरो न कदाचिद् विलयं गच्छति, विद्यायाः केवलोपयोगलक्षणाया निधनाभावात् ; अथवा द्वैततत्त्वावगाहिन्योऽद्वैततत्त्वावगाहिन्यो वा याः काश्चिद् विद्याः सन्ति ता निखिला अपि जिनोक्तपूर्वमहार्णवसमुद्गता एवेति सर्वविद्यामूलागमप्रवक्तृत्वाजिनो विद्यामहेश्वरस्तमित्यर्थः / अयाचितलोकपालं न याचितोऽयाचितः, लोकं पालयतीति लोकपालः, अयाचितश्चासौ लोकपालश्चायाचितलोकपालस्तम् , इन्द्रादयो दश दिक्पालाश्च याचिताः सन्तो लोकपालाः, जिनस्तु भगवान् 'दुःखमयसंसार. सागरे पततोऽस्मान् रक्ष' इत्येवं लोकैरयाचितोऽपि संसारमूलाज्ञाननिवर्त्तककेवल. ज्ञानादिप्रभवापवर्गलक्षणपरमपुरुषार्थोपदेशदानेन लोकान् पालयतीति / ब्रह्माक्षरं ब्रह्म च तदक्षरं च ब्रह्माक्षरं तद्रूपम् , शुद्धचैतन्यं ब्रह्म परैरुपगीयते, तच्च कर्मावरणविगमे जिनो भवत्येव, न क्षरति-न विनश्यतीत्यक्षरः, स चैकान्तः कोऽपि न भवति, वस्तुमात्रस्योत्पाद-व्यय-ध्रौव्यलक्षणसत्त्वस्य प्रतिक्षणं भावात्, किन्तु कथञ्चिद्विनाशेऽपि द्रव्यार्थतो ध्रौव्यशालित्वेनोपयोगात्मना न विनश्यत्येव, जीवद्रव्यात्मकव्यक्तिस्वरूपेण च न विनश्यति, एतादृशं चाक्षरत्वं संसारिणोऽपीति न विशेषप्रतिपक्तिकरम् , इदं तु स्याद् वर्तमानजिनपर्यायविजातीयपर्यायोत्पत्तिलक्षणविनाशरहितत्वमक्षरत्वम् , ईदृशं चाक्षरत्वं न मनुष्यादेः, तस्य मनुष्यादिपर्यायविजातीयदेवादिपर्यायोत्पत्तिलक्षणविनाशशालित्वादिति। परं सर्वोत्कृष्टः परस्तम् ; अयोगिनं कायवाङ्मनोयोगरहितम् , चित्तवृत्तिनिरोधलक्षणयोगोऽपि सम्प्रज्ञाताऽसम्प्रज्ञातमेदशाली मुक्तिधाम गतस्य जिनस्य नास्तीत्ययोगिनम् ; * ' अथवा परमयोगिनम् आत्मतत्त्वसाक्षात्कारवन्तम् "आगमेनानुमानेन ध्यानाभ्यासरसेन च / त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् // 1 // " [ ]