________________ द्वितीया द्वात्रिंशिका / न्यक्ताव्यक्तमनाद्यनन्तमनघं श्रीवीतरागं जिनं नुत्वा सूरिवरं प्रणम्य महितं श्रीनेमिसूरिं गुरुम् / स्मृत्वा न्यायविशारदादिविबुधव्याख्यातग्रन्थव्रजं लावण्यो वितनोति चाल्पधिषणो व्याख्यां द्वितीयस्तुतेः // 1 // हे जिन ! भवत्स्वरूपज्ञातैव स्वहितवेत्ता नान्य इति स्वहितजिज्ञासुः पुरुषो भवन्तमेव प्रथमं जानातु, भवति अहिता गुणा न सन्त्येवेति यादृशगुणवत्तया भवन्तं वेद त एव गुणा हितानीति ततो हितवेत्ता स स्यादेवेत्याह व्यक्तं निरजनमसंस्कृतमेकविद्यु विद्यामहेश्वरमयाचितलोकपालम् / ब्रह्माक्षरं परमयोगिनमादिसायं यस्त्वां न वेद न स वीर ! हितानि वेद // 1 // वसन्ततिलका] व्यक्तमिति-अत्रान्वयो यथाश्रुतानुपूर्वीक एव, हे वीर ! यः प्रमाता, त्वां जिनं, न वेद न जानाति, स प्रमाता, हितानि स्वेष्टानि, न वेद न जानाति, कीदृशं त्वाम् ? व्यक्तमिति-पूर्व कर्मावृतत्वादव्यक्तं कर्मावरणविगमे च व्यक्तिम्-आविर्भावमापन्नम् , अनन्तज्ञानादिगुणशालितया प्रकटमिति भावः / तत्रैव हेतुमाह-निरञ्जनम् अष्टविधकर्मक्षयाद् रागद्वेषाद्यञ्जनरहितम् / असंस्कृतं संस्कृतं-संस्कारः, न विद्यते संस्कृतं यस्य तं तथा, स्वतःस्फुरत्प्रकाशस्वरूपे न किञ्चित् संस्कारकृत्यं समस्तीति भावः / एकविद्यम् एका विद्या यस्य स एकविधस्तम्, विद्या-ज्ञानम् , मतिज्ञान-श्रुतज्ञान-ऽवधिज्ञान-मनःपर्यवज्ञानकेवलज्ञानेषु पञ्चसु मध्ये एककेवलज्ञानवानेव भगवान् , तथा च केवलज्ञानवन्तमित्यर्थः / विद्यामहेश्वरं विद्यया-ज्ञानेन, महानीश्वरो विद्यामहेश्वरस्तम् , लोके व्रीत्यादिधनेन सुवर्ण-रजतादिधनेन च महेश्वर इति गीयते, तच्च धनं तस्करा