________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 37 समृद्धयः, स्फुरन्ति प्रकाशन्ते, हे जिन !, ताः, सूक्तसम्पदः, तवैव जिनस्य भवत एव, पूर्वमहाणवोत्थिता वाक्यविपुषः पूर्वग्रन्थात्मको यो महार्णवः, तरङ्गा इव तत उत्थिता वाक्यविप्रषः-वाक्यबिदवः, जगत्प्रमाणं जगतःविश्वजन्तोः, प्रमाणं-न कस्यचिदप्रमाणमित्यर्थः // 30 // ईदृशी दर्शन-ज्ञान-चारित्रात्मकयोगेन सुदुस्तरतपश्चरणादिना वा विशिष्टातिशयाप्तिर्जिनस्य भवतो मनुष्यजन्मन्येव नान्यत्रेति शकाद्याः सुरर्षभाः स्वस्य महत्त्वाभिमानं त्यजन्तीत्युपदर्शयति शताध्वराद्या लवसप्तमोत्तमाः सुरर्षभा दृष्टपरापरस्त्वया। त्वदीययोगागममुग्धशक्तय स्त्यजन्ति मानं सुरलोकजन्मजम् // 31 // शताध्वराद्या इति / शताध्वराया लवसप्तमोत्तमाः सुरर्षभास्त्वया दृष्टपरापरास्त्वदीययोगागममुग्धशक्तयः सुरलोकजन्मजं मानं त्यजन्तीत्यन्वयः / शताध्वराद्याः इन्द्राद्याः, लवसप्तमोत्तमाः लवसप्तमाः-अनुत्तराभिधानेषु पञ्चसु विमानेषु निवसन्तो देवाः, ते उत्तमाः-सर्वश्रेष्ठा येषु तादृशाः, सुरर्षभाः देवानामधिपतयः, त्वया जिनेन, दृष्टपरा-ऽपराः 'अयमेतस्मात् परोऽयं चास्मादपरः' इत्येवं दृष्टः परा-ऽपरभावो येयां ते दृष्टपरापराः, परा-ऽपरशब्दावत्र भावप्रधानत्वात् परत्वा-ऽपरत्वे प्रतिपादयतः, एवम्भूतास्ते सुरर्षभाः त्वदोययोगागममुग्धशक्तयः त्वदीयः-तव सम्बन्धी यो योगः-दर्शन-ज्ञान-चारित्रायात्मकः, तस्य आगमे-प्राप्तौ, यद्वा त्वदीयौ-भवतो महावीरस्य सम्बन्धिनौ यौ योगा-ऽऽगमौ-मोक्षकारणदर्शन-ज्ञान-चारित्रात्मको योगः, द्वादशाङ्गीरूपं जिनप्रवचनमागमः, तयोः, तत्प्राप्तावित्यर्थः / मुग्धा-कुण्ठिता शक्तिर्येषां तादृशाः सन्तः, सुरलोकजन्मजं सुरलोके-देवलोके, यद् जन्म-स्वोत्पत्तिः, ततः संजातम् , मान अभिमानं, त्यजन्ति मुञ्चन्ति / / 31 //