________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / क्रियां चेति / संज्ञानवियोगनिष्फलां क्रियां च क्रियाविहीनां विबोध. सम्पदं च क्लेशसमूहशान्तये निरस्यता त्वया शिवाय पद्धतिरालिखितेवेत्यन्वयः / संज्ञानवियोगनिष्फलां संज्ञानस्य-सम्यगज्ञानस्य, वियोगेन-अभावेन, निष्फलां-फलरहिताम् , क्रियां चारित्रम् , च पुनः, क्रियाविहीनां सम्यक्चारित्ररहिताम्, विबाधसम्पदं सम्यग्ज्ञानसम्पत्तिम् , क्लेशशान्तये काम-क्रोधादिक्लेशशान्त्यर्थम् , निरस्यता निराकुर्वता, त्वया जिनेन सम्यगज्ञानरहिता क्रिया न क्लेशशान्तये, सम्यक्रियारहितं च ज्ञानं न क्लेशशान्तये' इत्येवं केवलां क्रियां केवलं ज्ञानं चापाकुर्वता जिनेनेति यावत् , शिवाय परमानन्दप्राप्तिलक्षणमोक्षाय, पतिः मार्गः, आलिखितेव समन्तादुपदर्शितेव, सम्बलितयोनि-चरणयोर्मोक्षकारणतयाऽनभिधानेऽपि केवलस्यैकैकस्य मोक्षकारणत्वप्रतिक्षेपात् सम्बलितयोस्तयोर्मोक्षकारणत्वमर्थादागतमेव, अत एव 'सम्यग्दर्शन-ज्ञान-चारित्राण मोक्षमार्गः” [तत्त्वार्थे, अ०१, सू०१] इति सूत्र वाचकप्रवरः प्रणिनायेत्यर्थः // 29 // एकान्तवाद्यागमेष्वपि विशिष्टाः सूक्तसंपद उपलभ्यमानास्तवैव पूर्वमहार्णबोस्थिताः, इति जिनवाक्यबिन्दव एव प्रमाणमित्युपदर्शयति सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः / तवैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविग्रुषः // 30 // सुनिश्चितमिति / नः सुनिश्चितं परतन्त्रयुक्तिषु याः काश्चन सूक्तसम्पदः स्फुरन्ति तास्तवैव पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविपुष इत्यन्वयः / नः अस्माकं जैनानाम् , सुनिश्चितं सम्यगवधारितम् , किं सुनिश्चितमित्याकाङक्षायामाह-परतन्त्रयुक्तिप्विति-परशास्त्रोपदर्शितयुक्तिध्वित्यर्थः, याः काश्चन एतावत्य एवेत्येवं निर्धारणाविषयाः, सूक्तसम्पदः, समोचीनोक्ति