________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / * त्वमात्थ सत्त्वं परिणामलक्षणं तदैव ते वीर ! विबुद्धलक्षणम् // 28 // यदेति / हे वीर ! यदा सत्त्वं न कोपादिवियुक्तलक्षणं न चापि कोपादिसमस्तलक्षणं त्वमात्थ, किन्तु परिणामलक्षणमात्थ, तदैव ते विबुद्धलक्षणमित्यन्वयः / हे वीर ! यदेत्यस्य आत्थेत्यनेन सम्बन्धः, “औपशमिक क्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वम् , औदयिक-पारिणामिको च" [2-1] इति तत्त्वार्थसूत्रात् औपशमिकादिभावयुक्तो जीव इति, तत्र सत्त्वमात्मानम् , कोपादिवियुक्तलक्षण कोपादिभिर्वियुक्तो जीव इत्येवलक्षणकम् , त्वं न आत्थ न कथयसि, कोपादिवियोगस्य निश्चैतन्ये जडेऽपि भावात् कामक्रोधादिदशायां चाभावात् , च पुनः, नापि नैव, कोपादिसमस्तलक्षण कोपाद्यखिलभावयुक्तो जीव इत्येवं लक्षणकमपि सत्त्वं त्वं न कथयसि, कोपादिसकलभावयुक्तत्वस्य कपि जीवे कदाप्यभावेनासम्भवदोषाक्रान्तत्वात् , किन्तु परिणामलक्षणं जीवत्व-भव्यत्वाऽभव्यत्वान्यतरा-ऽस्तित्वा-ऽन्यत्व-कर्तृत्व-भोक्तृत्वगुणवत्त्वाऽसर्वगतत्वा-ऽनादिकर्मसन्तानबद्धत्व-प्रदेशवत्त्वा-ऽरूपत्व-नित्यत्वाद्यनादिपरिणाम लक्षणं 'निरुक्तानादिपरिणामयुक्तो जीवः' इत्येवंलक्षणकं सत्त्वं यदा त्वं कथयसि तदैव तदानीमेव, ते जिनस्य, विबुद्धलक्षणं विशेषेण बुद्धः-समस्तपदार्थज्ञाता जिन इति लक्षणमावेदितं भवतीत्यर्थः, विबुद्धत्वमन्तरेणेदृशसत्त्वलक्षणोक्तेरसम्भवादित्याशयः // 28 // ज्ञान-क्रिययोरन्योऽन्यसहकृतयोरेव फलवत्त्वं न त्वन्योऽन्यवियुक्तयोस्तत्त्वमिति ब्रुवता भवता मुक्तिमार्गः स्पष्टीकृत एवेत्यावेदयति क्रियां च संज्ञानवियोगनिष्फलां क्रियाविहीनां च विबोधसंपदम् / निरस्यता क्लेशसमूहशान्तये त्वया शिवायालिखितेव पद्धतिः // 29 //