________________ 34 दिवाकर कृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / मेदेनाष्टप्रकारम् , यथा येन प्रकारेण, आत्थ हे भगवन् ! स्वं कथयसि, भुवि जगति, एवम् अमुना प्रकारेण, कश्चनापरः कोऽपि त्वदन्यः, कथयितुम. समर्थत्वान्न कथयतीत्यर्थः // 26 // पथा त्वं कथयसि तथैव कुर्वन्तः समीक्ष्यकारिणो नान्यथेत्याहन मानसं कर्म न देहवाङ्मयं शुभाशुभज्येष्ठफलं विभागशः। यदात्थ तेनैव समीक्ष्यकारिणः शरण्य ! सन्तस्त्वयि नाथबुद्धयः // 27 // न मानसमिति / विभागशो मानसं कर्म न शुभाशुभज्येष्ठफलं, देह वाङ्मयं कर्म न शुभाशुभज्येष्ठफलं विभागशः, इति यत् त्वमात्थ हे शरण्य ! त्वयि नाथबुद्धयः सन्तः तेनैव समीक्ष्यकारिण इत्यन्वयः / विभागशः विभजनया, माम कर्म ममोजन्यं कर्म, मनसा कृतं कर्मेति यावत् , म शुभाशुभज्येष्ठफल शुभा-ऽशुभयोर्मध्ये ज्येष्ठं फलं यस्य तत् शुभाशुभज्येष्ठफलम् , इत्थं नियमो नेत्यर्थः, शुद्धेन मनसा कृतं कर्म शुभफल भवति, काम-क्रोधाद्युपप्लुतमनसा कृतं कर्माशुभफलं भवति, तत्रापि विशिष्टत्तरशुद्धमनसा कृतं कर्म प्रकृष्टफलं भवतीत्येवं मानसिककर्मणां फलानियमोपलब्धेः, तथा देह-वाङ्मयं देहेन कृतं कर्म, वचसा च कृतं वर्म विभागशः शुभाशुभज्येष्ठफलं न, उक्तयुक्तः, हे शरण्य ! शरणागतवत्सल ! इति यत् त्वम् आत्थ कथयसि, त्वयि जिने नाथबुद्धयः मम नाथो जिन इत्याकारकबुद्धिमन्तः, सम्तः सज्जनाः, तेनैव त्वदुक्त प्रकारेणैव, समीक्ष्यकारिणः आलोचनपुरस्सरं कर्म कर्तार इत्यर्थः // 20 // परिणामलक्षणं जीवमुपर्शयस्त्वं विबुद्धोऽसीत्यवगम्यतेऽस्माभिरित्युपदर्शयति यदा न कोपादिवियुक्तलक्षणं न चापि कोपादिसमस्तलक्षणम् /