________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 33 स चेन्निमित्तं स्फुटमेव नास्ति न त्वदन्यतः स त्वयि येन केवलः // 25 // विरागहेतुप्रभविमिति / 'सुखं विरागहेतुप्रभवं न चेत् [तदा] तद् न नाम किञ्चित् , इति वयं स्थिताः, चेत् स निमित्तं, स्फुटमेव नास्ति [त्वदन्यत्र] येन [यतः] केवलः स न त्वदन्यतः, [किन्तु] त्वयि' इत्यन्वयः / सुखं विरागहेतुप्रभवं रागाभावलक्षणहेतुजन्यम् , न चेत् यदि न तदा, तत् सुखत्वेनाभिमतम् , नामेति कोमलामन्त्रणे, न किञ्चित् न किमपि, सुखस्वरूपं न भवत्येवेत्यर्थः / इति एवम् , वयं हे वीर ! तव भक्ता जैनाः, स्थिताः व्यवस्थिताः, जैना एवं निर्णीतवन्तः, यदुत-विरागहेतुप्रभवमेव सुखमिति, चेत् यदि, स विरागः, निमित्तं सुखकारणं तदा, स्फुटमेव प्रकटमेव, नास्ति त्वदन्यत्र सुखं नास्ति, येन यतः, केवलः शुद्धः, स विरागः, त्वदन्यतः त्वद्भिन्नबुद्ध-कपिलादिषु, न नास्त्येव, किन्तु त्वयि जिन एवेत्यर्थः // 25 // कर्म-कर्तृ-फलादिसम्बन्धप्ररूपणाऽपि यथा भवता क्रियते न तथाऽन्येन सा कर्तुं शक्येत्याह न कर्म कर्तारमतीत्य वर्तते ___ . य एव कर्ता स फलान्युपाश्नुते / तदष्टधा पुद्गलमूर्ति कर्मज यथाऽऽत्थ नैवं भुवि कश्चनापरः // 26 // न कर्मेति / कर्तारमतीत्य कर्म न वत्तंते, य एव कर्ता स फलान्युपाश्नुते, पुद्गलमूर्तिकर्भज तदष्टधा यथाऽऽत्थ, भुवि कश्चनापरो नेत्यन्वयः / कर्तारमतीत्य कर्तारमतिक्रम्य, कर्म न वर्तते कर्म न संभवति, य एव कर्ता य एव यत् कर्म करोति, स कर्ता, फलानि स्वकृत कर्मफलानि, उपाश्नुते उपभुङ्क्ते, पुद्गलमूर्ति कर्मजं पौद्गलिक मनो-वचन-कायव्यापारजन्यं च, तत् .. फलजनकं कर्म, अष्टधा ज्ञानावरणीय-दर्शनावरणीय-मोहनीया-ऽन्तरायादि