________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिशिका / बोधपेलवैः हे वीर ! त्वदीयवाक्यस्य -त्वच्छासनस्य यः प्रतिबोधस्तत्र पेलवैःअसमर्थः, त्वद्वाक्यार्थ परिज्ञानशून्यैरिति यावत् , शिवं मोक्षमुखम् , चिरादपि चिरकालेनापि, नैवाप्यते नैव प्राप्यते // 23 // रागतर्जनोपायोऽपि भवदीयो मान्यैराचरित इति नान्येषां रागाभावलक्षणं वैराग्यं सम्भवति, तदन्तरेण तत्प्रभवस्य सुखस्य संभावनाऽपि परेषां कुत इति पद्यद्वयेमाह न रागनिर्भर्त्सनयन्त्रमीदृशं त्वदन्यदृग्भिश्चलितं विगाहितम् / यथेयमन्तःकरणोपयुक्तता / बहिश्च चित्रं कलिलासनं तपः // 24 // न रागनिर्भर्सनयन्त्रमिति / त्वदन्यदृग्भिः, रागनिर्भर्त्सनयन्त्रमीदृशं चलितं न विगाहितम् , यथा इयमन्तःकरणोपयुक्तता बहिश्च चित्रं कलिलासन तप इत्यन्वयः / हे वीर ! त्वदन्यदृग्भिः त्वत्तोऽन्यस्मिन् कपिल-कणादादौ दृग्-दृष्टिः पूज्यत्वाप्तत्वादिबुद्धिर्येषां ते त्वदन्यदृशः, तैस्त्वदन्यदृग्भिः, कपिलकणादादिमतावलम्बिभिरित्यर्थः, रागनिर्भर्त्सनयन्त्रं रागस्य नितरां भर्सनंतर्जनं गञ्जनं यस्मात् तद् रागनिर्भर्त्सनम् , रागभर्त्सनं च तद् यन्त्रं च रागनिर्भनियन्त्रम् , ईदृशम् अनन्तरमेव निर्दिश्यमानम् . चलितं चरितम् , न विगाहितं न विशेषेण शीलितम् , चरितमेव भावयति-यथेति, इयं भवच्छिष्यप्रशिष्यगतत्वेनोपलभ्यमाना अन्तःकरणोपयुक्तता अन्तःकरणस्यमनसः, कर्तव्येऽनुष्टाने ध्येये परमात्मनि चैकाग्रता, च पुनः, बहिः बाह्यम् , चित्रम् अनेकप्रकारम् , कलिलासनम् कलिलं-पापम् , अस्यते क्षिप्यते दूरीक्रियतेऽनेनेति कलिलासनम् , पापशोधनसाधनमित्यर्थः, तपः मासोपवासादिकम् , ईदृशचरिताभावात् त्वदन्योपासकेभ्यो रागो न व्यपगत इत्यर्थः // 24 // विरागहेतुप्रभवं न चेत् सुखं न नाम तत् किञ्चिदिति स्थिता वयम् /