________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / अन्योपदेशप्रकारविलक्षणप्रकारोपदेशदातृत्वेन भगवन्तं स्तौतिमुखं जगद्धर्मविविक्ततां परे वदन्ति तेष्वेव च यान्ति गौरवम् / त्वया तु येनैव मुखेन भाषितं तथैव ते वीर ! गतं सुतैरपि // 22 // मुखमिति / परे मुखं जगद्धर्मविविक्ततां वदन्ति तेष्वेव च गौरवं यान्ति, हे वीर ! त्वया तु येनैव मुखेन भाषितं तथैव ते सुतैरपि गतमित्यन्वयः / परे एकान्तवादिनः, मुखं एकान्तनित्यत्वैकान्तक्षणिकत्वादिप्रकारम् , जगत् तत्तदेकान्तधर्मविशिष्टं विश्वम् , धर्मविविक्ततां धर्माणामन्योऽन्यभिन्नतां विरुद्धतां च वदन्ति कथयन्ति, च पुनः, तेष्वेव मुखजगद्धर्मविविक्ततास्वरूपेष्वेव, एवकारेण स्वस्मिन् गौरवस्य व्यवच्छेदः, गौरवं गुरुत्वम् , यान्ति प्राप्नुवन्ति, हे वीर! त्वया तु त्वया पुनः, येनैव मुखेन येनैवानन्तधर्मात्मकत्वलक्षणप्रकारेण, भाषितम् उपदर्शितम्, तथैव तेनैव प्रकारेण, सुतैरपि भवच्छिध्यप्रशिध्यैरपि, गतं गमनं कृतम् , न तु भवदुक्तमार्गविलोमगमनं भवच्छिष्यप्रशिष्याणामित्यर्थः // 22 // ये त्वद्वचनार्थ यथावदनवबुद्धथैव तपोनुष्ठानादिकमाचरन्ति ते मुक्तिं नैवाप्नुबन्तीत्यतो मुक्तिमभिलषद्भिस्त्वदीयवाक्यार्थसम्यगवबोधः करणीय एवेत्युपदिशति तपोभिरेकान्तशरीरपीडनै बतानुबन्धैः श्रुतसंपदापि वा / त्वदीयवाक्यप्रतिबोधपेलवै रवाप्यते नैव शिवं चिरादपि // 23 // तपोभिरिति / अत्रान्वयो यथाश्रुतशब्दानुगतिक एव / एकान्तशरीरपीडनैः एकान्तेन-सर्वथा, शरीरपीडनैः-शरीरपीडामात्रफलकैः, : तपोभिः मासोपवासादिभिः, तथा व्रतानुबन्धैः अहिंसादिपञ्चमहाव्रतपरिपालनैः, वा अथवा, श्रुतसंपदाऽपि द्वादशाङ्गयध्ययनादिसमृद्धयापि, त्वदीयवाक्यप्रति