________________ 30 दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / कण्टका नैयायिकमतार्दनप्रवणः पीडयन्त्येव नैयायिकान् , तैः असत् सदेवेति वाविषकण्टकैः भवान् सर्वज्ञः, अनेकान्तशिवोक्तिः अनेकान्ततत्त्वलक्षणस्य शिवस्योक्तिर्वचनं यस्य सोऽनेकान्तशिवोक्तिः कारणे स्यादसदेव काय, कारणे स्यात् सदेव कार्यमिति ब्रुवन् भवान् , न अदितः न पीडितः, स्यात्पदौषधिसान्निध्यतो विषकण्टका निर्विषाः सम्पद्यन्त इति न तेषां स्यात्पदौषधिसन्निहितानां पीडाजनकत्वमित्याशयः // 20 // अनेकान्ततत्त्वमुपदर्शयता भवताऽनेकान्तप्रकारान्यप्रकारेणार्थमुपदर्शयतां तथा जानतां वा न सम्यङ्मतित्वमित्यावेदितं भवतीत्युपदर्शयति निसर्गनित्यक्षणिकार्थवादिन स्तथा महत्-सूक्ष्मशरीरदर्शिनः / / यथा न सम्यङ्मतयस्तथा मुने ! ___ भवाननेकान्तविनीतमुक्तवान् // 21 // निसर्गेति / हे मुने ! तथा भवान् अनेकान्तविनोतमुक्तवान् , यथा निसर्गनित्यक्षणिकार्थवादिनः, तथा महत्सूक्ष्मशरीरदर्शिनो न सम्यङ्मतय इत्यन्वयः / हे मने ! सत्यमात्रवक्तृत्वेन मिथ्यावचनोच्चारणकर्तृत्वाभावलक्षणमौनव्रतधारिन् ! / तथा तेन प्रकारेण, भवान् , अनेकान्तविनीतम् अनेकान्तेन-नित्यत्वानित्यत्वाद्यनन्तधर्मशबलितवस्तुतत्त्वेन, विशेषेण नीतं-प्रापितमर्थम् , उक्तवान् कथितवान् , यथा येन प्रकारेण, निसर्गनित्यक्षणिकार्थवादिनः अर्थाः स्वभावत एव नित्या इति, अर्थाः स्वभावत एव क्षणिका इति च वादिनः, तथा तद्वत् , महत्-सुक्ष्मशरीरदर्शिनः यदेव महदौदारिकं शरीरमवलोक्यते तदेव शरीर ततोऽन्यच्छरीरं नास्तीति, "ततः सत्यवतः कायात् पाशबद्धं वशं गतम् / अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् // 15 // " [ ] इति वचनात् सूक्ष्मशरीरमपि परलोकयात्राक्षममस्तीतिदर्शिनः, न सम्या मतय, भवदुक्तानेकान्तप्रकारकमतिशून्यत्वान्न सम्यङ्मतय इत्यर्थः // 21 //