SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 29 एकरूपापि हि भगवतोऽर्धमागधी भाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति, यदाह-- देवा देवी नरा नारों शबरा चापि शाबरीम् / तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवद्गिरम् // 14 // " [ ] त्वदीयमाहात्म्यविशेषसंभली त्वदीयं यन्माहात्म्यं तविशेषसंभलीतद्विशेषान्तभूता, तव येऽतिशयास्तेषु मध्ये भारतीस्वरूपोऽप्यतिशय इति यावत् , मोहेन-अज्ञानेन, पिच्छलानि-कस्यापि विचारपदस्यादृढावस्थानानि मोहपिच्छलानि, अपि मनांसि, अभ्युपेत्य अभितः-सर्वतो भावेनोपगम्य, ते तव, भारती वाणी, भाति प्रकाशते इत्यर्थः // 19 // परस्परविद्विषां प्रवादिनामन्योऽन्यपीडाजनकैरेकान्तवाग्विषकण्टकैरनेकान्तकल्याणकन्दोक्तिभवान् न पीडितो भवतीति स्तुतिपात्रमित्याह -- असत् सदेवेति परस्परद्विषः प्रवादिनः कारणकार्यतर्किणः। तुदन्ति यान् वाग्विषकण्टकान्न तै- / भवाननेकान्तशिवोक्तिरर्यत // 20 // असत् सदेवेतीति / परस्परद्विषः, असत् सदेवेति कारणकार्यतर्किणः प्रवादिनो यान् वाग्विषकण्टकान् तुदन्ति तैरनेकान्तशिवोक्तिर्भवान् न अदित इत्यन्वयः / अर्यत इति मूलपाठस्तु चिन्तनीयार्थः, परस्परद्विषः अन्योऽन्यद्वेषशालिनः, असत् सदेवेति कारणकार्यतकिणः कारणे उत्पत्तेः प्राग संदेव कार्यमिति तर्किणो नैयायिकादयः, कारणे उत्पत्तेः प्राक् सदेव कार्यमिति तर्किणः साङ्ख्याः, प्रवादिनः नैयायिकसाङ्ख्यादयः, यान् वागविषकण्टकान् तुदन्ति साङ्ख्याः कारणेऽसदेव कार्यमिति वाग्विषकण्टकान् तुदन्ति-खण्डयन्ति, नैयायिकाः कारणे सदेव कार्यमिति वागविषकण्टकान् तुदन्ति-खण्डसंन्ति, ते तु वाविषकण्टका यथावत् खण्डिता न भवन्त्येवेति नैयायिकोक्तिविषकण्टकाः साङ्ख्यमतार्दनप्रवणाः पीडयन्त्येव साङ्क्षयान् , एवं साङ्खयोक्तिविष
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy