________________ 28 दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / सर्वतोभावेन मातुमशक्यः, विस्तरः-विस्तारो येषु तानि नयप्रसङ्गापरिमेयविस्तराणि, तैः सङ्गागतानेकनविचारशालिभिरित्यर्थः, पुनः किम्भूतैः ? अनेकभङ्गाभिगमार्थपेशलैः अनैकैर्भङ्गैरभितो गम्यन्त इति अनेकभङ्गाभिगमाः, एवम्भूता ये अर्थाः-पदार्थास्तैः पेशलानि-मनोज्ञानि तैः, पुनः कीदृशैः ? अकृ. त्रिमस्वादुपदैः अकृत्रिमस्वादूनि-अन हार्यमाधुर्याणि पदःनि-नामिकादीनि येषु तैः, स्वच्छ-स्वादुमृदुप्रभृतयो हि गुणमात्रवचना अपि दृश्यन्ते, अथवा अकृत्रिमाणि-असंस्कृतानि, अत एव स्वादूनि-मन्दधियामपि पेशलानि, पदानि येषु तैरिति विग्रहः, उक्तं हि -- "बाल-स्त्री-मूढमूर्खाणां नृणां चारित्रकाक्षिणाम् / __ अनुग्रहार्य तत्त्वज्ञैः सिद्धान्त: प्राकृतः कृतः // 13 // ' [ ] हे जिन ! तव वचनतः सुनयस्वरूपमधिगम्य सन्नयलक्षणविकल दुर्नयाकलितशास्त्रप्रतारणाजनितदुरन्तसंसारादिफलककर्मानुष्टानाग्रकरणात् तदनुष्टानजनितनरकादितो रक्षितो भवति, अनेकभङ्गजनितज्ञानादनेकधर्माणां परस्परविरोधपरिहारज्ञानवान् भवति, यतो विरोधप्रसङ्गभयान्मुच्यते, अकृत्रिमस्वादुपदश्रवणतोऽत्यन्तानन्दकन्दोल्लासो भवतीत्यर्थः / / 18 // भगवतो महावीरस्य सर्वजन्तुभाषासाधारणी भारती स्तौति विलक्षणानामविलक्षणा सती __ त्वदीयमाहात्म्यविशेषसंभली / मनांसि वाचामपि सोहपिच्छला ___ न्युपेत्य तेऽत्यद्भुत ! भाति भारती // 19 // विलक्षणानामिति / हे अत्यद्भुत ! विलक्षणानामपि वाचामविलक्षणा सती त्वदीयमाहात्म्यविशेषसंभली ते भारती मोहपिच्छलानि अपि मनांसि अभ्युपेत्य भातीत्यन्वयः। हे अत्यदभुत ! सर्वजनातिशायलिशयवत्त्वादत्यन्ताश्चर्यस्वरूप ! भगवन् ! विलक्षणानां मिथोविजातीयानामपि, वाचां तत्तज्जन्तुवाचाम् , अविलक्षणा सतो सर्ववचनानुगतस्वरूपतया अविलक्षणा सती,