SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 27 मात्सर्यदोषाभिभूताः परवादिशिष्या यदि भवदीयसूत्रार्थयथार्थवक्तारो न भवन्ति तदाऽत्र विस्मयो न कार्य इत्याह स्वपक्ष एव प्रतिबद्धमत्सरा यथान्यशिष्याः स्वरुचिपलापिनः / निरुक्तसूत्रस्य यथार्थवादिनो न तत् तथा यत् तव कोऽत्र विस्मयः // 17 // स्वपक्ष एवेति / यथाऽन्यशिष्याः प्रतिबद्धमत्सरा निरुक्तसूत्रस्य स्वपक्ष एव स्वरुचिप्रलापिनः, तत् तथा यथार्थवादिनो न यत्, अत्र तव को विस्मय इत्यन्वयः / अन्यशिष्याः अन्यवादिनः शिष्याः, प्रतिबद्धो मत्सरोऽन्यपक्षे द्वेषो यैस्ते प्रतिबद्धमत्सराः सन्तः, निरुक्तसूत्रस्य त्वदीयनिरुक्तसूत्रस्य, स्वपक्ष पव स्वाभ्युपगतपदार्थतत्व एव, स्वरुचिपलापिनः योऽर्थः स्वस्मै रोचते तदर्थस्य येन केनचित् प्रकारेण भाषिणो यथा, तत् तदा, तथा तेन रूपेण, यथार्थवादिनो न तेन रूपेण तथार्थस्याभावात् , अत्र अज्ञानविजृम्भितेऽस्मिन् विषये, तव राग-द्वेषादिरहितस्यास्य भवतः, को विस्मयः ? न किञ्चिदप्याचर्यमित्यर्थः // 17 // जिनस्य वचनद्वारा सर्वरक्षकत्वगुणं स्तौतिनयप्रसङ्गापरिमेयविस्तरै रनेकभङ्गाभिगमार्थपेशलैः / अकृत्रिमस्वादुपदैर्जनं जनं __ जिनेन्द्र ! साक्षादिव पासि भाषितैः // 18 // नयेति / अन्वयोऽत्र यथाश्रुतपदसमभिव्याहारानुसार्येव / हे जिनेन्द्र ! साक्षादिव सोक्षाद् यथा स्यात् तथा, जन जन प्रतिजनम् , भाषितैः वचनैः, पासि रक्षसि, कथम्भूतैभाषितैरित्याकाङ्क्षायामाह-नयप्रसङ्गापरिमेर्यावस्तरैः नयानां-सङ्ग्रहादीनाम् , प्रसङ्गेन-प्रकृष्टसङ्गत्या, अपरिमेयः-परितः
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy