________________ 26 दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / यदा न संसारविकारसंस्थिति- . . विगाह्यते त्वत्प्रतिघातनोन्मुखैः / शटैस्तदा सज्जनवल्लभोत्सवो ___ न किञ्चिदस्तीत्यभयैः प्रबोधितः // 16 // यदेति / हे वीर ! त्वत्प्रतिघातनोन्मुखैः शठैः संसारविकारसंस्थितियदा न विगाह्यते तदाऽभयैः सज्जनवल्लभोत्सवो न किञ्चिदस्तीति प्रबोधितो लोको भवतीति शेष इत्यन्वयः / त्वत्प्रतिघातनोन्मुखैः तव-जिनस्य, यत् प्रतिघातनम् - आत्मनः प्रतिघातासम्भवात् तपश्चरणादि क्रियाविध्वंसोपायानुष्ठानम् , तदुन्मुखैःतत्परायणैः, संसारविकारसंस्थितिः संसारस्य यः कामिन्यादिदर्शन-नृत्याद्यवलोकततद्गीतादिश्रवणादिप्रभवः कायिक-वाचिक-मानसिकविकारस्तस्य त्वयि संस्थितिः-सम्यग् व्यवस्थानम् , न विमाह्यते न विशेषेण संश्लेषिता भवति, भगवच्छरीरादिकमुद्दिश्य शटैः क्रियमाणोऽपि सांसारिकसुख-दुःखादिसाधनोपायो विक्रियालेशस्याप्यजनकत्वान्न साफल्यमञ्चति, तदा संसारविकारोपायस्य त्वयि वैफल्ये सति, अभयैः सर्वेषां जन्तूनामभयप्रदातृत्वेनाजातशत्रोस्तवाभयस्य प्रशिप्यैरपि भयरहितैः, सज्जनवल्लभोत्सवः सज्जनस्य सांसारिकमनोज्ञवस्तुप्राप्तिजनितानन्दः, 'न किञ्चिदस्ति' अस्य स्थाने 'न कश्चिदस्ति' इति पाठो युक्तः, यदेशशठोपनीतानेकमनोहरवस्तुभिरपि जिनस्य न विकारसमुल्लासस्तदा तदाज्ञानुवतिपुरुषाणां सजनानां कुतस्तत आनन्द इति स नास्त्येव, इति एवं लोकः प्रबोधितो भवति “यद् यदाचरति श्रेष्ठस्तत् तदेवेतरो जनः / स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते // 12 // " इत्यादिवचनात् , अथवा तपोविघ्नोपायं विदधतोऽपि शठान् प्रत्यभयदानपरायण एव त्वं तदाऽभयस्तैरेव शठरुपदेशमकुर्वद्भिरपि अर्थादेव सज्जनवल्ल. भोत्सवो यदि कश्चिद् भवेत् तदा वीरस्यापि मनोहरविषयसन्निपाते स स्यात् , न भवति स इति नास्त्येव स इति प्रबोधित इत्यर्थः // 16 //