________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 25 सर्वज्ञविनिश्चयं न करोति असौ त्ययि सर्वज्ञत्वनिर्णयकर्तृत्वविकलः पुरुषः, न मानुषो मनुष्यो न भवति, सर्वज्ञत्वसाधकहेतुज्ञानसद्भावेऽपि सर्वज्ञत्वज्ञानाभावात् , किन्तु शृङ्ग-पुच्छविकलः पशुरेवासाविति हृदयम् // 14 // तव तत्त्वप्रकाशनप्रभवत्रिभुवनव्यापियशःकथाऽस्तु नाम, तव प्रशिष्याणामपि स्वविद्योद्गारप्रभाविता यादृशी यश प्रथा, तादृशी यशःप्रथा परवादिप्रकाण्डैरेकत्र सम्मिलितैरपि प्रथयितुमयोग्यैवेत्युपदिशति अलब्धनिष्ठाः प्रसमिद्धचेतस स्तव प्रशिष्याः प्रथयन्ति यद् यशः / न तावदप्येकसमूहसंहताः प्रकाशयेयुः परवादिपार्थिवाः // 15 // अलब्धनिष्ठा इति / अलब्धनिष्ठाः प्रसमिद्धचेतसस्तव प्रशिष्याः यद् यशः प्रथयन्ति, एकसमूहसंहताः परवादिपार्थिवास्तावदपि न प्रकाशयेयुरित्यन्वयः / हे वोर ! तव भवतः, प्रशिष्याः शिष्यस्य शिष्याः, पारम्पर्येण शिष्या इति यावत् , कतिसंख्यकाः ? अलब्धनिष्ठाः न लब्धा-अलन्धा, निष्ठा-विश्रान्तिः, अलब्धा निष्ठा यैस्ते अलब्धनिष्ठाः, प्रभूतसङ्ख्यका इत्यर्थः, किम्भूताः ? प्रसमिद्धचेतसः प्रकर्षेण समिद्धं-समित्यादिगुणसम्पन्नं चेतोऽन्तःकरणं येषां ते प्रसमिद्धचेतसः, एवंविधास्तव प्रशिष्याः, यद् यशः प्रथयन्ति यादृशं जगद्विख्यातं यशः-जैनमतगौरवविषयकगुणगानसमुल्लसितं यशः, प्रथयन्ति-विस्तारयन्ति भव्यजनहृदयव्यापि कुर्वन्ति, एकसमूहसंहताः सर्वैरैकमत्यमत्याश्रित्येक समूहं स्वीयमनेकान्तवादिविनिर्मुक्तमारचय्य तत्र संहताः-सम्मिलिताः, परवादिपार्थिवाः एकान्तवादिनां राजानः-एकान्तवादिनामग्रेसराः, तावदपि भवत्प्रशिष्ययशस्समानमपि यशः, न प्रकाशयेयुः न लोकज्ञानविषयं कुर्युः, दूरे भवयशस्समानयशःप्रकाशनसंभावना परवादिष्विति हृदयम् // 15 // . ' त्वयि संसारविकारोत्पादनपराङ्मुखा दुर्जना यदा भवन्ति तदा दुर्जनजनितो. पद्रवमया हितैस्तव प्रशिप्यैः लोकेऽस्मिन् सज्जनमनोज्ञं न किञ्चिन्न च तदुत्सवो न्याय्य इत्येवं सौकर्येण लोकः प्रबोधितो भवतीत्याह