________________ 24 दिवाकर कृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / कथितः, अनेन षड्जीवनिकायविस्तरकथनेन, सर्वशपरीक्षणक्षमाः सर्वज्ञस्य परीक्षणे क्षमाः समर्थाः प्रमातारः, ईदृशं षड्जीवनिकायविस्तरं सर्वज्ञ एव वक्तुं प्रगल्भ इत्येतद् वक्तृत्वाग्जिन एव सर्वज्ञो नान्य इत्येवं परीक्षाविदग्धा इति यावत्, प्रसादोदयसोत्सवाः भवतः प्रसादस्य-अनुग्रहस्य-य उदय आविभावस्तेन सोत्सवा इव-'प्रसन्नोऽस्मासु भगवान् येनास्माकं तत्त्वज्ञानार्थमोदृशं शासमुपदिष्टम्' इत्यानन्दतरङ्गिणीनिममहृदया इव, त्वयि भगवति, स्थिताः भवन्तमेव संसारसागरोत्तारकं वरिष्टं मन्यमानाः सुव्यवस्थिता इत्यर्थः / / 13 // यस्यापि त्वयि सर्वज्ञविनिश्चयो नास्ति तस्याप्यन्यजनविलक्षणोऽयमिति बुद्धिर्भवति, तबुद्धया च तदर्चनीयतामासादयत्येव भवानित्याह वपुः स्वभावस्थमरक्तशोणितं परानुकम्पासफलं च भाषितम् / न यस्य सर्वज्ञविनिश्चयस्त्वयि. द्वयं करोत्येतदसौ न मानुषः // 14 // वपुरिति / यस्य त्वयि सर्वज्ञविनि चयो न स्वभावस्थमरक्तशोणितं वपुः परानुकम्पासफलं च भाषितमेतद्वयम्, असौ न मानुषः, करोतीत्यन्वयः / यस्य प्रमातुः, हे वीर ! त्वयि केवलज्ञानवत्यपि षड्जीवनिकायविस्तरवक्तर्यपि, सर्वज्ञविनिश्चयो न अयं सर्वज्ञ इति विशेषेण निश्चयो नास्ति, तस्या स्वभावस्थं वपुः स्वस्वभावे व्यवस्थितं तव शरीरम् , एवं सत् अरक्तशोणितं रक्तशोणितरहितम्, अर्थात् क्षीरधवलशोणितसंवलितम् , एतदनन्यअनसाधारणम् , परानुकम्पासफलं च भाषितं परं प्रति याऽनुकम्पा तया -सफलं-फलवत् परानुकम्पाप्रत्यलं च, तव भाषितं वचनम् , एतद् द्वयं इत्थम्भूतं शरीर-वचनद्वयम् , असो वीरः, न मानुषः किन्तु देव इति बुद्धिं करोति देवत्वाच्चार्चनीयोऽयमित्यगि बुद्धिस्तस्य जायत एवेति, वस्तुतः "न यस्य सर्वज्ञविनिश्चयस्वाय” इत्यस्य स्थाने "न यस्य सर्वज्ञविनिश्चयं त्वयि" इति पाठो युक्त स्वभावस्थमरक्तशोणितं वपुः परानुकम्पासफलं भाषितं चैतद् द्वयं त्वयि यस्य