________________ दिवाकरकृता किरणावलोक लता प्रथमा द्वात्रिंशिका विनिश्चयः कृतः तथा ज्ञेयस्य विनिश्चयो यथार्थो न भवति, परे त्वेवभिमन्यन्तेयथाऽस्माभिर्जेयविनिश्चयः कृतस्तथैव ज्ञेयविनिश्चयो नान्यथेत्येवं सुनिश्चितज्ञेयविनिश्चयाः, अपीत्यत्राप्यनुषङ्गेण योजनीयः, हे वीर ! ते तव, मतं सप्तसन्नयसंयोजनाकलितस्याद्वादप्रमाणराजोपपादितभनेकान्ततत्त्वम् , यातं ज्ञातुम् , 'य गत्यर्थास्ते ज्ञानार्थाः' इति वचनात् ज्ञातुमिति वक्तव्ये यातुमिति यदुक्तं तद् दृष्टान्तदा न्तियोः सादृश्याधिगतये, नालं न समर्थाः // 12 // न केवलं भक्त्यैव किन्तु पराविज्ञातार्थागमप्रवक्तृत्वेन सर्वज्ञतया परोक्षिते त्वयि प्रसादोदयाकाक्षिणः स्याद्वादिनः स्थिता इति भवतः प्रसादादचिरेणैवा. वाप्तरत्नत्रया आसादयिष्यन्ति मुक्तिलक्ष्मीमित्याह य एष षड्जीवनिकायविस्तरः परैरनालीढपथस्त्वयोदितः / अनेन सर्वज्ञपरीक्षणक्षमा ___ स्त्वयि प्रसादोदयसोत्सवाः स्थिताः // 13 // य एष इति / त्वया परैरनालीढपथो य एष षड्जोवनिकायविस्तर उदितः, अनेन सर्वज्ञपरीक्षणक्षमाः प्रसादोदयसोत्सवास्त्वयि स्थिता इत्यन्वयः / हे वीर ! त्वया केवलज्ञानशालिना, परैः एकान्तवादिभिः, अनालीढपथः अपरामृष्टमार्गः, य एष परीक्षकजनैः प्रत्यक्षीक्रियमाण;, अध्ययना-ऽध्यापनाभ्यां प्रत्यक्षवद् व्यवह्रियमाण इति यावत्, षड्जीवनिकायविस्तरः उपयोगलक्षणो जीवः, स च संसारि-मुक्तमेदेन द्विविधः, तत्र-संसारी त्रस-स्थावरभेदेन द्विविधः / तत्र त्रसजीवः-तेजो-वायु-द्वीन्द्रियादिभेदेन त्रिविधः, त्रि-चतुरिन्द्रियादयो द्वीन्द्रियादित्वेन सङ्ग्रहोताः, स्थावरजीवोऽपि पृथिव्यम्बु वनस्पतिभेदेन त्रिविधः, यद्वा पृथिवोकाया-ऽप्काय-तेजस्काय-वायुकाय-वनस्पतिकाय-त्रसकायभेदेन * षडविधा जीवाः, अत्र बसपदेन द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियाणां ग्रहणम्, तेजो-वाय्वोर्गतिमात्रतया त्रसत्वेनाविवक्षणात् पृथगुपादानम् , इत्यादिदिशा षण्णां जीवनिकायानां विस्तरः-अवान्तर-तदवान्तरमेदप्रपञ्चः, उदितः