________________ 22 दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिशिका / विषयो भवति, किन्तु यदा यद्विषयावच्छेदेनावरणस्य प्रतिबन्धो विनाशो वा तदा स विषयो विलोक्यत इति, हे भगवन् ! ध्रुवं निश्चितम् , तदेति शेषः, भवद्वाक्यविलोमदुर्नयान् भवतः-महावीरस्य, यदनेकान्ततत्त्वप्ररूपकं स्याद्वादवाक्यं तद्विलोमाः-तत्प्रतिकूलस्वभावा ये दुर्नयाः-एकान्ताद्वैताद्यवगाहिनयास्तान् , चिरानुगान् चिरकालात् स्वानुसरणशीलान् , तान् एकान्ताद्वैतादिवादिमततया प्रसिद्धान , उपगृह्य संमन्तादालिङ्गथ, शेरते एकान्ताद्वैतादिवादिनः शयनमनुभवन्ति, 'भवद्वाक्यविलोमदुर्नया रिचरानुगां तामुपगृह्य शेरते" इति पाठादरे तु भवद्वाक्याद् विलोमा दुर्नया येषां ते एकान्ताद्वैतादिवादिनः, चिरानुगां चिरकालात् संलग्नाम् , ताम् अद्वैतवादप्रसिद्धामविद्याम् , उपगृह्य आलिङ्गय, शेरते शयनमनुभवन्ति, आविद्यकमखिलं जगदिति मन्यमानो वादी यथेष्टमाचरन्ननन्तसंसारो भवति न कदापि मुच्यत इति हृदयम् / / 11 // नन्वेकान्तवादिनोऽपि निश्चिततत्त्वनि चया अन्ते स्याद्वादतत्त्वावगमनतो मुक्ता भविष्यन्तीत्यत आह समृद्धपत्रा अपि सच्छिखण्डिनो यथा न गच्छन्ति गतं गुरुत्मतः / सुनिश्चितज्ञेयविनिश्चयास्तथा . न ते मतं यातुमलं प्रवादिनः // 12 // समृद्धपत्रा अपोति / यथा सच्छिखण्डिनः समृद्धपत्रा अपि गरुत्मतो गतं न गच्छन्ति तथा प्रवादिनः सुनिश्चितज्ञेयविनिचयास्ते मतं यातुं नालमित्यन्वयः / सच्छिखण्डिनः समीचीना मयूराः, समृद्धपत्रा अपि परिपूर्णपक्षा अपि, गरुत्मतः गरुडस्य, गतं गमनं, यथा न गच्छन्ति परिपूर्णाङ्गा अपि गमनसामग्रीसम्पन्ना अपि मयूरा गरुडगमनसमानगमना यथा न भवन्तीत्यर्थः / तथा तद्वत्. प्रवादिनः अद्वैतायेकान्तवादिनः, सुनिश्चितज्ञेयविनिश्चयाः सुष्ठु निश्चितः सुनिश्चितः, ज्ञेयस्य विनिश्चयो ज्ञेयविनिश्चयः, सुनिश्चितो ज्ञेयविनिश्चयो यैस्ते सुनिश्चितज्ञेयविनिश्चयाः, परैर्य था ज्ञेय