________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 21 सति घटोऽस्ति वह्निरस्तीत्येवमस्तित्वेन वस्तुनः स्फुरणम् , अभानापादिकाऽऽवरणशक्तिश्च, सा च प्रत्यक्षज्ञानतो नश्यति, तन्नाशे सति घटो भाति वह्निर्भाती. त्येवं स्पष्टतया वस्तु प्रतिभासते, प्रत्यक्षस्थले विषयदेशेऽन्तःकरणं गत्वा विषयाकारेण परिणमति, स एव वृत्तिरुच्यतेऽन्तःकरणपरिणामः, तादृशवृत्त्यवच्छिन्नचैतन्यं प्रमाणचैतन्यमिति गीयते, अन्तःकरणावच्छिन्नचैतन्यं च प्रमातृचैतन्यम् , विषयावच्छिन्नचैतन्यं प्रमेयचैन्यम् , उपाधीनामन्तःकरणतद्वत्तिविषयाणामेकदेशस्थत्वादुपधेयानामपि चैतन्यानामेकदेशस्थत्वम् , ततश्चाभेद इति चैतन्यत्रयाणामेकलोलीभावे प्रमेयचैतन्यस्य प्रमाणचैतन्याभेद एव प्रत्यक्षत्वम् , प्रमातृचैतन्य-प्रमेयचैतन्ययोरैक्यात् प्रमातृसत्तातिरिक्तसत्ताकत्वाभाव एव विषयस्य प्रत्यक्षत्वम् , विषयस्य स्वावच्छिन्नचैतन्ये कल्पितत्वादधिष्ठानसत्तैव कल्पितस्य सत्तेति विषयावच्छिन्नचैतन्यसत्त्व विषयस्य सत्ता. विषयावच्छिन्नचैतन्यं च प्रमातृचैतन्याभिन्नमिति प्रमातृसत्तैव प्रमेयस्य सत्तेति प्रमातृसत्तातिरिक्त सत्ताकत्वाभावस्तत्र सुव्यवस्थितः. परोक्षस्थले. चान्त करणस्य न बहिनिर्गमनमिति न तत्र विषयाकारान्तःकरणवृत्तिः किन्तु स्वदेशे विषयाकारा वृत्तिरिति वृत्त्यवच्छिन्नचैतन्यस्य प्रमेयावच्छिन्नचैतन्याभेदाभावान्न ज्ञानस्य प्रत्यक्षत्वम् , प्रमातृचैतन्यस्यापि विषयदेशस्थत्वाभावान्न प्रभेयावच्छिन्नचैतन्याभेद इति विषयस्यापि प्रमातृसत्तातिरिक्तसत्ताकत्वस्य भावेन न तदभावलक्षण प्रत्यक्षत्वमित्येतन्मतमुपहसति अविद्यया चेद् युगपद्विलक्षणं क्षणादि कृत्स्नं न विलोक्यते जगत् / ध्रुवं भवद्वाक्यविलोमदुनयां चिरानुगांस्तानुपगृह्य शेरते // 11 // _ अविद्यया चेदिति / अत्रान्वयो यथाश्रुत एव / अविद्यया ब्रह्मनिष्ठया * सत्त्व-रजस्तमोलक्षणया मायया, उत्पन्नमावतं च, यदि, चेद् युगपत् सम कालम्, विलक्षणं परस्परभिन्नम् , क्षणादि क्षणस्थितिकादि, कृत्स्नं समग्रम् , जगत् विश्वम् , न विलोक्यते युगपदित्यस्यात्राप्यन्वयात् समकालं न प्रत्यक्ष