________________ दिवाकरकृता किरणावलोकलिता प्रथमा द्वात्रिंशिका / दीयसन्मार्गविलोमचेष्टितः-हे वीर ! त्वदुपदिष्टो यः समीचीनो मार्गः, तद्विलोमचेष्टितः-तत्प्रतिकूल क्रियः, उन्मार्गगामीति यावत् , एवम्भूतो जनः, नु इति वितर्के, सुचिरं चिरकालं यावत् , अजनः सुजनभिन्नः, वस्तुतः स्वजनिकार्यासम्पादकत्वादजात एव, कथ न स्यात् ? अपि तु सुचिरमजात एवेत्यर्थः // 9 / / अपराधरहितानप्यस्मान स्याद्वादिनो जाल्मा एकान्तवादिनस्त्वत्प्रतिकूल वादित्वाद् दहन्तीति धिगेतानित्युपदिशति परस्परं क्षुद्रजनः प्रतीपगा ___ निहैव दण्डेन युनक्ति वा नवा / निरागसस्त्वत्प्रतिकूलवादिनो। दहन्त्यमुत्रेह च जाल्मवादिनः // 10 // परस्परमिति / क्षुद्रजनः परस्प प्रतीपगान् इहैव दण्डेन युनक्ति वा, नवा युनक्ति, त्वत्प्रतिकूलवादिनो जाल्मवादिनो निरागस इहामुत्र च दहन्तीत्यन्वयः / क्षुद्रजनः क्षुद्रस्वभावो रथ्यापुरुषादिः, परस्परं प्रतीपगान् अन्योऽन्यं स्वपक्षविरुद्धपक्षावलम्बिनः, इहैव अस्मिन्नेव लोके, दण्डेन प्रतिघातकयष्ट्यादिना, युनक्ति वा सम्बन्धयति वा, नवा युक्ति नवा दण्डेन सम्बन्धयति, चिरकालिकक्रोधादिदोषाविर्भावे तदुपशान्तये प्रतीपगानिहैव दण्डादिना घातयति, आविर्भूतस्याप्य चिरकालिकस्य क्रोधादेः स्वयमेवोपशान्तौ न घातयत्यपीत्यर्थः / हे वीर ! त्वत्प्रतिकूलवादिनः त्वदभ्युपगतस्याद्वादविरुद्धैकान्तवादिनः, जाल्मवादिनः जाल्माः-मूर्खाश्च ते वादिनो जाल्मवादिनः, निरागसः अपराधरहितान् भवच्छिष्यानस्मान् , इह अस्मिन् लोके, इहैव तावजिनवचननिन्दामुपश्रुत्य क्रोधाविष्टमानसा वयं दह्यामहे, जिनभक्ता वयं परभवेऽपि जैना एव भविष्याम इति, अमुत्र परलोकेऽपि, दहन्ति // 10 // सर्व वस्त्वाविद्यकमेव. अविद्याया द्वे शक्ती-आवरणशक्तिविक्षेपशक्तिश्च, तत्र विक्षेपशक्तिर्नाम सर्जनशक्तिः , यत आकाशादिक्रमेण वस्तुनः सृष्टिः, आवरणशक्तिद्विधा-असत्यापादिकाऽऽवरणशक्तिः, सा च परोक्षज्ञानतो नश्यति, तन्नाशे