________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 19 रथ्यापुरुषवदितस्ततो दृश्यमानः, अन्यः केवलज्ञानाद्यतिशयविकलवाद् भवद्भिन्नः, जनः भवभ्रमणजन्यक्लेशादिप्रयोजनकजनिमान् , भवाति विक्लवः भवसम्बन्धिपीडापरिप्लुतचेताः, हे वीर ! त्वद्वचनरूपं यत् परमानन्दमुक्त्युपायज्ञानादिसाधनत्वादमृतं तदेवौषधं भवव्याध्यपहारप्रत्यलम् , करुणात्मकैरपि 'अहो-मासोपवासादिबहुक्लेशजनकैरुपायैः क्लेशपरिहाणिमुपदर्शयन् जिनोऽकरुणः, भोजनादीनि कर्माणि कुर्वन्नेवाहमिव क्लेशविमुक्तो भविष्यति जनः, किमिति मुधा किश्यते ?' इत्येवं करुणात्मकैरपि, स्वनिष्ठितक्लेशविनाशकाहलैः स्वस्मिन् स्वस्य वा निष्ठां-श्रद्धामितः-प्राप्तो यः क्लेशविनाशस्तस्य काहलै:-युक्तिरिक्तवचनोद्गारैः, विकुत्सयन् निन्दयन् , न शान्तिम् , आप्नोति प्राप्नोति, अत्रैव वा भवातिविक्लव इति हेतुः, यत इत्थं त्वद्वचनामृतौषधं विकुत्सयन् असेवमानो भवातिविक्लवो भवतीति // 8 // . अन्यतान्त्रिकप्रतारणया भवदुपदर्शितसन्मार्गप्रतिकूलं गच्छन् जनो मनुष्यजन्मकार्याकरणादुत्तरभवेऽपि पूर्वभवीयसंस्कारप्राबल्यतो जन्मकार्याकरणात् सुचिरजात एवेत्युपदिशति प्रपञ्चितक्षुल्लकतर्कशासनैः . परप्रणेयाल्पमतिर्भवासनैः / त्वदीयसन्मार्गविलोमचेष्टितः ____कथं नु न स्यात् सुचिरं जनोऽजनः ? // 9 // प्रपश्चितेति / परप्रणेयाल्पमतिर्जनो भवासनैः प्रपञ्चितक्षुल्लकतर्कशासनैस्त्वदीयसन्मार्गविलोमचेष्टितः सन् कथं नु सुचिरमजनो न स्यादित्यन्वयः / परप्रणेयाल्पमतिः परेण प्रणेया-नीयमाना, अल्पा-अल्पविषयिणी मतिर्यस्य स परप्रणेयाल्पतिः, परावबोध्यमानमात्रविषयकबुद्धिरित्यर्थः / जनः पुरुषः / भवासनैः भवः-संसारः, आसनं-सुदृढावस्थानास्पदं येषां ते भवासनास्तैः / प्रपञ्चित. क्षुल्लकतर्कशासनैः-प्रपञ्चितानि-स्वयंनिमितानि, यानि क्षुल्लकतर्कशासनानितर्कतयाऽऽपाततो भासमानतळभासप्रतिपादकशास्त्राणि, तैः-तद्वारेत्यर्थः / त्व