________________ 18 दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिशिका / कौशलं-चातुर्यम् , यद्वा कृतार्थ ! हे कृतकृत्य ! भगवन् ! कौशलं सकलविषयकं चातुर्यम् , यद्वा प्रकृते विशेषत उपयुक्तः ‘कृपार्थकौशल' इति पाटो यदि कल्प्येत तदा दयाशब्दार्थकर णचातुर्यमिति तदर्थः, 'मनिष्टाननुबन्धिनी परदुःख प्रहाणे छा दया' इति दयाशब्दार्थः, दयास्वरूपमिति भावः, तत्र चातुर्यमिति, अप्राप्य अलब्ध्वा, स्वतः स्वस्मिन् , कृपाम् अन्येषां दयाम् , सञ्जनयन्ति उत्पादयन्ति, तन्निमित्तकस्वमांसदानेन यथावत् तद्रक्षणं न आतमेव, केवलं तत्र तस्य निमित्ततयाऽपायोत्पत्तिः, स्वस्योपि च निषिद्धस्वमांसदानाचरणजन्यप्रत्यवायोत्पत्तिश्चेति तादृशता पुरुषेष्वेव ज्ञानिनां कृपोपजायत इति, अत एव शिविनाम्नो राज्ञः-- "न कपोतकपोतकं तव, स्पृशतु श्येन ! मनागपि स्पृहा / इदमद्य मया समरितं, भवते चारुतरं कलेवरम् // 11 // " [र. गं. आ. 1] इति वचनप्रतिपादितं कपोतरक्षार्थ स्वहस्तधृतखड्गेनोत्कृत्य स्वशरीरमांसप्रदानं श्येनपक्षिणे न समीचीनम् , इत्यावेदितम् // 7 // एवं स्वस्य येन केनचिदुपायेन काकतालीयन्यायेन क्लेशविनाशमनुभूय तदुपायेनैव सम्भावितातिसुलभभावप्रभावितकरुणात्मकतद्गतक्लेशविनाशकत्वप्रतिपादकप्रमाणापेतवचनाडम्बरेण भवव्याधिविनाशकभवदीयवचनामृतौषधनिन्दापरायणो जनः स्वयमपि काम-क्रोधादिलक्षणभवगदपीडितो न शान्तिभाजमिति भवद्भिन्नजनोपदेशं परित्यज्य भवदुपदेशमेव भवव्याधिविनाशाय शृण्वन्तु शान्त्यभिलाषुका इत्युपदिशति जनोऽयमन्यः करुणात्मकैरपि स्वनिष्ठितक्लेशविनाशकाहलैः / विकुत्सयंस्त्वद्वचनामृतौषधं न शान्तिमामोति भवार्तिविक्लवः // 8 // जनोऽयमिति / अयमन्यो जनो भवातिविक्लवस्त्वद्वचनामृतौषधं करुणात्मकैरपि स्वनिष्ठितक्लेशविनाशकाहलैविकुत्सयन् न शान्तिमाप्नोतीत्यन्वयः / अयं