________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 17 वदन्तीति / गुणान्धचेतसः स्वविद्विषः किल समेत्य ते यानेष दोषान् वर्दान्त त एव विज्ञानपथागताः सतां त्वदीयमुक्तप्रतिपत्तिहेतव इत्यन्वयः / तब वचनगुणेऽन्धं-सर्वथाऽऽवृतं चेतो-मनो येषां ते गुणान्धचेतसः, त्वद्वचनगुणज्ञानविकला इत्यर्थः / अत एव स्वविद्विषः स्वात्मानमेव विद्विषन्तः, जिनवचनमन्तरेण यथार्थात्मस्वरूपज्ञानासम्भवेनानात्मानमेवात्मानमवगच्छन्तस्ते मात्मानं नरके पातयन्तोति भवन्ति स्वविद्विषः / किलेति सम्भावनायाम् / ते तव मते, अथवा ते एकान्तवादिनः / समेत्य एकीभूय / यानेव दोषान् विरोध-संकर-व्यतिकर-संशया-ऽनवस्थादोन् / वदन्ति कथयन्ति / त एव दोषाः, विज्ञानपथागता विचारमार्गोपनीताः सम्यगविचारिताः सन्तः, सतां तत्त्वातत्त्वविवेककुशलानाम्, त्वदीयसूक्तस्य-त्वन्मुखाम्भोजनिर्गतस्याद्वादार्थानेकान्तस्य या प्रतिपत्तिः-ज्ञानं तस्य हेतवो भवन्ति. अपेक्षामेदेन विरोधादिदोषाणां परिहारोपपत्तेः, सर्वथाविरोधादेरभावात् कथञ्चिद्विरोधादरिष्टत्वादित्यर्थः // 6 // ___ कृतार्थता त्वय्येव परिनिष्ठितेति [कृपास्वरूपं त्वयैव परिज्ञातमिति] तवैवान्योपरि कृपा श्लाघनीया नान्येषामित्याह कृपां वहन्तः कृपणेषु जन्तुषु स्वमांसदानेष्वपि मुक्तचेतसः। त्वदीयमप्राप्य कृतार्थकौशलं स्वतः कृपां संजनयन्त्यमेधसः // 7 // कृपामिति / कृपणेषु जन्तुषु कृपां वहन्तः स्वमांसदानेष्वपि मुक्तचेतसोऽमेधसः; त्वदीयं कृतार्थकौशलमप्राप्य स्वतः कृपां सजनयन्तीत्यन्वयः / अमेधसः मेधारहिताः पुरुषाः सौगतादयः, कृपणेसु अतिदरिद्रेषु कृपापात्रेषु जन्तुषु प्राणिषु, कृपां तद्रक्षणविषयां दयाम् , वहन्तो धारयन्तः, स्वमांसदानेवपि मुक्तचेतसः स्वमांसदानेनाप्येतदक्षणं भवस्वित्येवंचित्तव्यापासः, हे वीर ! त्वदीयं त्वत्सम्बन्धि, कृतार्थकौशलं कृतार्थ-निष्पन्नप्रयोजन यता