________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / समीक्ष्य तत्त्वोत्पथिकान् कुवादिनः कथं पुमान् स्याच्छिथिलादरस्त्वयि ? // 5 // परस्पराक्षेपेति / कुवादिनः समीक्ष्य पुमान् त्वयि शिथिलादरः कथं स्यादित्यन्वयः, कुवादिनः कुत्सितैकान्तवादप्रचारोद्यतान् परवादिनः, समीक्ष्य सम्यग् ज्ञात्वा, पुमान् प्रमाता पुरुषः, त्वयि स्याद्वादराद्धान्तोपदर्शके जिने, शिथिलादरः गुणस्तुत्यादौ शिथिलप्रयत्नः, कथं स्यात् ? न कथञ्चित् स्यात् , सततं त्वद्गुणगानादिप्रयत्नवानेव भवेदित्यर्थः / कीदृशान् कुवादिनः ? परस्पराक्षेपविलुप्तचेतसः अन्योऽन्यं प्रति य आक्षेपः-प्रश्नः, एकान्तनित्यवादिन एकान्तानित्यवादिनं प्रति, एकान्तानित्यवादिन एकान्तनित्यवादिनं प्रति प्रश्नः, तेन विलुप्त-विशेषेण स्वपक्षस्थापनकुण्ठितम् , चेतः-अन्तःकरणं येषां ते परस्पराक्षेपविलुप्तचेतसस्तान् , परस्पराक्षेपव्यग्रचित्तत्वात् स्वपक्षस्थापनसामर्थ्य विकलचित्तानिति यावत् / अत एव स्ववादपूर्वापरमूढनिश्चयान् स्वस्य-निजस्य यो वादः-एकान्तनित्यत्वविषयक एकान्तानित्यत्वविषयको वा राद्धान्तः, तस्य यः पूर्वो भाग:-पूर्वमुक्तिप्रकारः प्रश्नप्रतिविधानादिलक्षणः, यश्चापरो भागः-पूर्वोपदर्शितप्रकारोपपादनरूपस्तद्विलक्षणप्रकारोपदर्शनादिरूपो वा तयोर्मूढः-तदवधारणासमर्थः, निश्चयः-निर्णयो येषां ते तथा तान्, स्ववादे पूर्वमिदमुक्तमुत्तरत्र चेदमुक्तमिति पूर्वापरपरामर्शविकलतया स्वोक्तिविरुद्धभाषणतया स्वोक्त्येव पराहतानिति यावत् / तथा तत्त्वोत्पथिकान् तत्त्वोन्मुक्तमार्गगामिनः, ईदृशानां कुवादिनामुपदेशतो दूरे तत्त्वार्थाधिगतिः, प्रत्युत सन्मार्गप्रच्यवादनन्तभवभ्रमणमेव भवेदतस्त्वय्येव निरन्तरादरः पुरुष इत्यर्थः // 5 // परेकान्तवादिभिरेकीभूय त्वद्वचसि उद्भाविता, दोषा अपि सद्विचारमुपनीता गुणा एवेति दर्शयति वदन्ति यानेव गुणान्धचेतसः समेत्य दोषान् किल ते स्वविद्विषः / त एव विज्ञानपथागतः सतां त्वदीयसक्तप्रतिपत्तिहेतवः // 6 //