________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिशिका / 15 इति वचनात् काव्योत्पत्तौ शक्ति-निपुणता-ऽभ्यासानां त्रयाणां समुदितानामेव हेतुत्वं, न त्वेकैकस्येति काव्यशक्तरित्यनेन काव्यशक्ति-काव्यनिपुणता-काव्याभ्यासेभ्य इति गृह्यते, काव्यशक्त्यादिकं मयि वर्तते, अतस्तदुपयोगो यत्र कुत्रापि विषये मया प्रकटनोय इत्यभिसन्धिमता मया काव्यशक्त्यादिबलात् हे भगवन् ! स्वं न नूयसे स्तूयसे इत्यर्थः / न परस्परेjया नूयसे मत्सदृशो मत्तो न्यूनो वा भगवन्तं स्तौति, कथमहं न स्तवीमि तत्सदृशस्ततो वाऽधिकप्रतिभादिगुणशालीत्येवमन्योऽन्येjया मया न स्तूयसे, यथा काव्यशक्तितः स्तुतौ न यथास्थितस्तव्यगुणख्यापनं तोद्भावितस्तुतावपीत्यर्थः / न वीरकीर्तिप्रतिबोधनेच्छया तीर्थान्तरीयं प्रति वीरस्य-अपश्चिमतीर्थकृतो भगवतो या त्रिभुवनव्यापिनी कीर्तिस्तस्या यत् प्रतिबोधन-सम्यगवगमनं, तदिच्छया-तत्कामनया न स्तूयसे, वीर ! इति सम्बोधनं वा, तत्र तवेति दृश्यम् , अथवा स्वस्य काव्यकरणकुशलताविषयकलोकव्यापिप्रख्यातिविषयकबोधेच्छयेत्यर्थः, एतत्स्तुतिमन्तरेणापि त्रिभुवनव्यापिन्या भगवतः कीर्तेरवगतिरस्त्येव जनानामिति तदिच्छया स्तुतिनिन्दनाय विदुषामित्याशयः / न केवलं श्रद्धतयैव नूयसे अनया स्तुत्या भगवद्गुणातिशयावगतिर्भवतु वा मा वा, केवलं-किन्तु भगद्विषयिणी भक्तिःश्रद्धा समस्ति, तद्वत्तया स्तूयसे, स्वश्रद्धाप्रकटनफलिकेयं भवत्स्तुतिरस्माकमित्यपि नेति यावत्, एतादृशी स्तुतिर्गुणातिशयविकलस्यापि श्रद्धान्धपुरुषकृताऽज्ञानविज़म्भितेति नोपादेया विदुषामित्याकूतम् / यतः यस्मात्, गुणवपूज्योऽसि गुणज्ञानां सुरेन्द्रादीनामर्चनीयस्त्वमसि, गुणज्ञा गुणातिशयवत्तया भवन्तं ज्ञात्वैव भवन्तं पूजयन्ति, यदि भवान् गुणातिशयवान्न स्यान गुणज्ञा भवन्तं पूजयेयुरिति गुणातिशयवति त्वयि, अयं स्तुतिविषयकः, आदरः प्रयत्नो ममेत्यर्थः / "वदन्ति वंशस्थविलं ज-तौ ज-रौ" इति लक्षणलक्षितत्वाद् वंशस्थविलवृत्तमिदम्, एवमप्रेऽपि // 4 // भगवस्तुतिविषयक प्रयत्नलक्षणादरस्यावश्यविधेयत्वमुपदर्शयति. परस्पराक्षेपविलुप्तचेतसः स्ववादपूर्वापरमूढनिश्चयान् /