________________ 14 दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / पुनः कीदृशम् ? यतीन्द्रं यमनियमादिवतां यतीनां-मुनीनाम्, इन्द्रःराजा तम्; एवम्भूतं जिनवर्धमान जिन चासौ वर्धमान च जिनवर्धमानस्तम्, राग-द्वेषादिभावशत्रुजेतृत्वाजिनः, अव-समन्ताद्, ऋद्धं परमातिशयप्राप्तम् , मानं-केवलज्ञानं यस्यासौ वर्धमानः, “वष्टि भागुरिरल्लोपमवाऽप्योरुपसर्गयोः" इति वचनादकारलोपाद् वर्धमान इति, अनेन जिनसमुदयो विशेष्यतयोपादातुं शक्यते, स्वयंभुवमित्यादीनि विशेषणानि सर्वाण्यपि जिनमात्रसजतानि, किन्तु सन्निहितोपकारकत्वाद् वर्धमानसंज्ञाया चरमतीर्थङ्करे ज्ञातनामकक्षत्रियविशेषावतं. सेक्ष्वाकुवंशीयसिद्धार्थनरेन्द्रपुत्रे तद्ग्रहदोपे रूढत्वाच्चरमतीर्थकरवर्धमान एव 'जिनवर्धमान' इत्यनेन ग्राह्यः; "सिद्धार्थनरेन्द्रकुलदीप" [11] इत्येवं तत्त्वार्थकारिकायामसौ निर्दिष्टः, तत्र “वर्धते हीदं कोशाधभिवृद्धया वर्धमान इत्यतो दीपः" इत्यनेन टोकावचनेन एतज्जन्मकालाधारभ्य कोशायभिवृद्धिरिति वर्धमानसंज्ञाप्रवृत्तिरिति तं जिनवर्धमानम्, प्रणम्य स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापारलक्षणं प्रणामं कृत्वा, तमेव स्तोष्ये तवृत्तिगुणातिशयप्रकटनलक्षण. स्तुतिविषयकभविष्यत्कृतिवानहं सिद्धसेनदिवाकर इत्यर्थः / प्रथम-तृतीयपादयोरुपेन्द्रवज्रात्वं, द्वितीय-चतुर्थपादयोरिन्द्रवज्रात्वमित्युभयमेलनादुपजातिवृत्तमिदमिति // 3 // स्तुतिकारो वर्धमानस्तुतिकरणप्रवृत्तौ हेत्वन्तरनिषेधपुरस्सरमसाधारणहेतुमुपदर्शयति न काव्यशक्तेर्न परस्परेर्ण्यया न वीरकीर्तिप्रतिबोधनेच्छया / न केवलं श्राद्धतयैव नूयसे गुणज्ञपूज्योऽसि यतोऽयमादरः॥४॥ [वंशस्थविलम] न कव्यशक्तेरिति-अस्य 'नूयसे' इत्यनेनान्वयः, “शक्तिनिपुणता लोककाव्यशास्त्राथवेक्षणात् / काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे // 10 // " [काव्यप्रकाशे 1,3]