________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 13 लोकलोकः, अर्शमादित्वादच् प्रत्ययः, तम्. अलोक-लोकसम्बन्धित्वं चास्य तद्विषयकप्रत्यक्षवत्त्वेन / उपेन्द्रवज्रावृत्तम् // 2 // पुनः किम्भूतम् ? कुहेतु-तर्कोपरतप्रपञ्चसद्भावशुद्धाप्रतिवादवाद कुत्सितौ यौ हेतु-तकौं', हेतोः साध्याविनाभाव-पक्षधर्मतोभयशून्यत्वं कुत्सितत्वम्, यत्र पक्षधर्मता विद्यते साध्याविनाभावश्च नास्ति तत्र साध्याविनाभावरहित्यप्रयोज्यं निरुतोभयशून्यत्वम्, यत्र साध्याधिनाभावो विद्यते पक्षधर्मता च नास्ति तत्र पक्षधर्मताराहित्यप्रयोज्यं निरुक्तोभयशून्यत्वम्, तर्कस्य-जैनमते साध्यहेत्वविनाभावग्राहकोहाख्यप्रमाणरूपस्य सर्वोपसंहारेण शब्दा-ऽर्थयोर्वाच्यवाचकभावसम्बन्धग्राहकस्य वा, साध्याविनाभावविरहिणि साध्याविनाभावग्राहित्वं, तदवाचके शब्दे तदर्थवाचकत्वग्राहकत्वं, तदवाच्येऽर्थे तच्छब्दवाच्यत्वग्राहकत्वं वा कुत्सितत्वम्, न्यायमते व्यभिचारशङ्कानिवर्तकत्वेन व्याप्तिग्रहोपयोगी तों व्यापकाभाववत्तया निर्णीते धर्मिणि . व्याप्यारोपेण व्यापकारोपलक्षणः, यथा क्वचिद् वह्निविरहवत्यपि धूमो भविष्यतीति व्यभिचारशङ्कानिवर्तको धूमो यदि वह्निव्यभिचारी स्यात् वह्निजन्यो न स्यादिति, तस्य कुत्सितत्वमिष्टापादनरूपत्वमापाद्या-ऽऽपादकयोर्व्याप्त्यभावश्च, विषयपरिशोधक च तर्क आत्माश्रया-ऽन्योन्याश्रय-चक्रका-ऽनवस्था-लाघव-गौरवादिस्तेषामपि कुत्सितत्वमिष्टापादनादिरूपत्वम्, ताभ्यां कुहेतु-तर्काभ्यामुपरतः कुहेतुतर्कोपदर्शनरहित इति यावत् , प्रप चस्य-जगतो यः सद्भावः-वास्तविकसत्त्वं तेन, शुद्धः-विषयाशुद्धिरहितः, अप्रति वादः-न विद्यते प्रतिघातको वादः-राद्धान्तो यस्य सोऽप्रतिवादः, कुहेतुतर्कोपरतः प्रपञ्चसदभावशुद्ध चाप्रतिवादो वादो यस्य स कुहेतु-तर्कोपरतप्रपञ्चसद्भावशुद्धाप्रतिवादवादः, तम्, वादश्च स्याद्वादसिद्धान्तो तत्र न कुहेतु-तर्कोपदर्शनम्, यञ्च प्रपञ्चस्य-जगतः सद्भावावेदकत्वाच्छुद्धः, यद्विषयबाधको नापरो राधान्त इति / पुनः कीदृशम् ? सच्छासनवर्धमानं सत्-प्रमाणाबाध्यार्थप्रतिपादकत्वात् समीचीनम्, सतां-वा पदार्थानाम्, शास्यते-प्रतिपाद्यतेऽनेनेति शासनम्, समीचीनः-सत्पदार्थप्रदर्शको वाऽऽगमः, तेन पर्वमानः-तीर्थान्तरप्रणेत्रपेक्षया वृद्धिमुपगच्छंस्तम् /