________________ 12 दिवाकर कृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / नासामर्थ्यादिति युज्यतेऽतीतसंख्यानत्वम् ; अथवा "हरः प्रसङ्ख्यानपरो बभूव" [ कु० सं० स० 3 ] इत्यत्र प्रोपसर्गपूर्वकसंख्यानशब्दस्य योगविशेषात्मकध्यानवाचकत्वेन संख्यानशब्दोऽपि ज्ञानगर्भयोगवाचक इति अतीतं -स्वकर्तव्यबहिर्भूतं निरुक्तलक्षणं संख्यानं यस्य कृतकृत्यस्य भगवतः सोऽतीतसंख्यानस्तम् ; अथवाऽतीतम्-उल्लवित सङ्ख्यान-निरुक्तयोगात्मकं येन सोऽतीतसङ्ख्यानस्तम्, सर्वप्रकारेण योगिनोऽपि ध्यानाविषयत्वं भवत्युत्कर्षाधायकम् / पुनः कीदृशम् ? अनन्तकल्पम् अनन्तस्य-विष्णोः, कल्पं-सदृशम् ; अथवा अनन्तः-अनन्तसङ्ख्यकः, कल्पः-तत्तद्धर्मप्रतिपादकः पक्षो यत्र सोऽनन्तकल्पस्तम्, शैवानामयं शिव इति, वैष्णवानामयं विष्णुरिति, पौराणिकानामयं पितामह इति, बौद्धानामयं बुद्ध इति, मीमांसकानामिदं कर्मेति, नैयायिकानामयं जगत: कर्तेति, जैनानामयमर्हन्नित्येवमनन्तसंख्यकपक्षविषयत्वमनन्तकल्पत्वमुपासनाभेदनिबन्धनं युज्यत इति, अथवा ब्रह्मणो यावत्सृष्टयधिकरणकालः कल्प इति परैः परिभाषितः, सोऽनन्तो यस्य सोऽनन्तकल्पस्तम् , अनन्तकल्पावच्छि. न्नस्थायित्वमनन्तकल्पत्वप्रयोजकं युज्यत इति / / पुनः कीदृशम् ? अचिन्त्यमाहात्म्यम् अचिन्त्यम्-इदमित्थमस्येत्येवं चिन्तयितुं विचारयितुमशक्यं माहात्म्यं यस्य सोऽचिन्त्यमाहात्म्यस्तम्, देवागमनभोयानचामरादिविभूतीनां साक्षात् तद्विहरणसमये प्रत्यक्षत उपलभ्यमानानामन्यदा चागमगम्यानां सद्भावेऽपि चिन्तनं विशेषानाकलनतोऽशक्यमेवेति भावः / पुनः कीदृशम् ? अलोकलोकम् अशोक-धर्माधर्मास्तिकायानवच्छिन्नाकाशं, लोकयति-प्रकाशयतीत्यलोकलोकस्तम्; अथवा लोकैः-रथ्योपुरुषसाधारणजनैः, लोक्यते-प्रत्यक्षविषयीक्रियत इति लोकलोकः, न लोकलोकोऽलोकलोकःअस्मदादिप्रत्यक्षागोचरस्तम्; यद्वा लोकं-प्रत्यक्षप्रमाणमात्रगम्यं, लोकयति-पश्यतीति लोकलोकश्चार्वाकः स्वर्गा-ऽपवर्गाद्यपलापी, एवं-भूतो यो न भवति सोऽलोकलोकः-स्वर्गापवर्गाद्यखिलप्रत्यक्षाविषयाभ्युपगन्ता, तम्; अथवा अलोकं-अस्मदादिप्रत्यक्षाविषयं, लोकयति-साक्षात्करोतीत्यलोकलोकस्तम्। अथवा, अलोकलोकौ-धर्मास्तिकाया-ऽधर्मास्तिकायानवच्छिन्नाकाश-तद्भिन्नाकाशावस्य स्त इत्य