________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 11 "ज्ञो झये कथमज्ञः स्यादसति प्रतिबाधरि ? / * सत्येव दाह्ये नह्यग्निः क्वचिद् दृष्टो न दाहकः // 8 // " [ ] इति वचनात्, यथा दाहकस्वभावस्य वढेर्दाह्यस्वभावतृणादिसन्निधाने दाहप्रतिबन्धकर्मण्यायसमवधाने च दाहकत्वमेव स्वसम्बद्धतृणादीनां नादाहकत्वम्, तथा जानातीति ज्ञः, तत्स्वभाव आत्मा, ज्ञायते-ज्ञानविषयो भवतीति ज्ञेयः, तस्मिन् पदार्थे, यत्र कुत्रापि देशे यदा कदापि काले वर्तमाने सति, अवमासप्रतिबन्धककर्मावरणविगमे च कथम् ?-न कथञ्चित्, ज्ञेयस्वभावपदार्थमात्रविषयकज्ञानरहितो भवेदित्युक्तवचनार्थः, ज्ञानस्य सर्वविषयत्वस्वभावत्वेऽपि निश्शेषत आवरणकर्मक्षयासंभवात् प्रतिबन्धके विद्यमाने सर्व विषयावभासनं न सम्भवतीति न शङ्कनीयम्, 'यदुत्कर्षे यदपकर्षस्तदतिशयितोत्कर्षगमने तदत्यन्तापकर्षः' इति व्याप्तेवढेरुत्कर्षातिशये जलस्यात्यन्तापकर्षदर्शनाज्ज्ञानोत्कर्षे दोषावरणापकर्षस्य दर्शनेन ज्ञानात्यन्तोत्कर्षे पुरुषविशेषे दोषावरणात्यन्तापकर्षस्य संभवात् , तदुक्तम्- . "दोषाऽऽवरणयोर्हानिनिश्शेषाऽस्यातशायनात् / यथा क्वचित् स्वहेतुभ्यो बहिरन्तर्मलक्षयः // 9 // " [ अत्र दोषाऽऽवरणहानितरतमभावः क्वचिद् विश्रान्तः, तरतमभावत्वात् , यो यस्तरतमभावः स क्वचिद् विश्रान्तः, यथाऽणुपरिमाणतरतमभावः परमाणौ महत्परिमाणतरतमभावो गगनादौ वा, तरतमभावश्च ज्ञाने दोषा-ऽऽवरणहानी चेति, तस्मादस्ति तर-तमभावविश्रान्त्याश्रयो दोषावरणहानिर्ज्ञानातिशयश्चेति यस्तरतमभावविश्रान्त्याश्रयदोषावरणहानिमान् तथाभूतज्ञानवांश्च स सर्वगतावभासस्तम्; सर्वज्ञनिराकरणपरमीमांसकमतखण्डनं विस्तरतः सम्मतितर्कादाविति / पुनः कीदृशम् ? अतीतसंख्यानम् अतीतम्-अतिक्रान्तं, सङ्ख्यानंगणितशास्त्रं ज्योतिश्शास्त्रं च येन सोऽतीतसङ्ख्यानस्तम्, अमुकतिथि-नक्षत्रकरणयोगाद्याकलितमुहूर्ते जातः पुमानीदृशगुणसम्पन्नो भवतीत्यावेदकं ज्योतिश्शास्त्रं यस्मिन् पुरुषधौरेये जिनवर्धमाने वचनातिक्रान्तानल्पगुणविशेषशालित्वेनावगमयितुं न प्रगल्भते, वचनविशेषसन्दर्भमयस्य ज्योतिःशास्त्रस्यानभिधेयगुणप्रतिपाद