________________ 10 दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / ततो विरुद्धमाभासते, विरोधपरिहारश्चाक्षशब्दस्यात्मपरत्वेनेन्द्रियपरत्वेन च भवत्येवेति विरोधाभासालङ्कारोऽत्र, "आभासत्वे विरोधस्य विरोधाभास उच्यते" [ ] इति वचनात्; अथवा रक्ष्यत इति रक्षः, नितराम्-अतिशयेन रक्षो निरक्षस्तम्, यो हि यादृशस्वभावे वर्तते तस्योत्तरकालं तत्स्वभावावस्थानं तत्स्वभावाप्रच्युत्या यद् भवति तद् रक्षेति निगद्यते, जिनवर्धमानो जिनवर्धमानस्वभावो यदा जातस्तदारभ्योत्तरकालमखिलमपि स स्वभावस्तत्र वर्तत इति तत्स्वभावस्याप्रच्युत्याऽवस्थानलक्षणा रक्षा नितरां समस्ति, अन्यप्रयुक्ता तु रक्षा प्रयोजकस्यान्यस्यापगमे विनश्यतीति न सा नितरां रक्षा, जिनवर्धमानस्तु स्वकार - णादविचलिततथास्वभाव एव जातो न तस्य स्वभावस्यापगमाशङ्काऽपि स्वस्वरूपाभिन्नत्वादिति निरक्षत्वमुपपद्यते जिनवर्धमानस्य, उक्तस्वरूपं च निरक्षत्वं न घट-पटादिसाधारणमिति भवत्युपास्यत्वप्रयोजकम् / / पुनः कीदृशम् ? स्वयम्प्रभ स्वयम्-ओत्मनैव प्रकर्षेण भातीति स्वयम्प्रभस्तम्, एवकारोपादानात् स्वभाने दीपान्तरादिप्रकाशनिरपेक्षस्यापि प्रदीपादेः स्वातिरिक्तचक्षुरादीन्द्रियप्रमात्रादेरपेक्षणान्न स्वयम्प्रभात्वम् , अस्मदाद्यात्मनामपि जाग्रत्स्वप्नसुषुप्त्यवस्थावतां स्वात्मनैव भातत्वेऽपि न प्रकर्षणानावृतस्वरूपेण भात. त्वमिति भवत्येतजिनवर्धमानस्योत्कर्षाधायकमिति / तत् किं स्वकीयज्ञानलक्षणप्रभया स्वस्वरूपमेवावभासयति ? उत पदार्थान्तरमप्यवभासयतीत्याकाङ्क्षायामाह-सर्वमतावभासमिति - सर्वगतः-सर्वपदार्थवृत्तिः, अवभासः-निरावरणज्ञानविषयता यस्य स सर्वगतावभासस्तम्, निरावरणेत्युपादानान्नास्मदाद्यात्मनां सर्वगतावभासत्वप्रसङ्गः, अस्मदाद्यात्मनामप्युपयोगलक्षणत्वेनोपयोगस्य सर्वस्य सर्वविषयकत्वं स्वभावत एव, किन्तु कर्मावरणाच्छा. दितज्ञानविषयत्वेनावभासव्यवहारो न भवति, नवा सर्वविषयकावृतज्ञानवत्त्वेऽपि सर्वज्ञत्वव्यवहारः, क्षायौपशमिकमत्यादिज्ञानविषयत्वेन घटोऽवभासत इति व्यव. हारो यद्यपि भवति तथापि सर्वथा घटोऽवभासत इति न भवत्येव, एवं च सर्वप्रकारेण सर्वपदार्थवृत्तिविषयतानिरूपकनिरावरणज्ञानवत्त्वं सर्वगतावभासत्वं जिनवर्धमानस्योपास्यत्वप्रयोजकप्रकृष्टत्वगमकमुपपन्नम् ; निरावरणस्यापि ज्ञानस्य नियमितपदार्थविषयकत्वमेव न सर्वविषयकत्वमिति न शङ्कनीयम् /