________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 9 पुनः किम्भूतम् ! समन्तसर्वाक्षगुणं समन्तात्-सर्वप्रकारतः, सर्वेषाम्, अक्षाणाम्-आत्मनाम् , गुणाः-ज्ञानादयो यत्र स समन्तसर्वाक्षगुणस्तम् , यद्यपि यस्य कस्याप्येकस्यात्मन एकोऽपि गुण एकेनापि प्रकारेण कथञ्चित्तादात्म्यलक्षणाविष्वम्भावसम्बन्धेन नान्यात्मनि वर्तत इति सर्वप्रकारेण सर्वात्मसम्बन्धिगुणवत्त्वलक्षणसमन्तसर्वाक्षगुणत्वं जिनवर्धमानस्य न सम्भवति तथापि मतिज्ञानादयो ज्ञानादिभेदा नात्मनो गुणाः “सहभाविनो गुणाः, क्रमभाविनः पर्यायाः" [ ] इति सूत्रबलात् सहभाविन एव गुणत्वेन क्रमभाविनां मतिज्ञानादीनां गुणत्वाभावात् , किन्तु निविशेषिता ज्ञानादय. एव गुणाः, जैनमते स्वतोऽनुवृत्तिस्वभावा ज्ञानादय एव सामान्यमिति तद्रूपेण सर्वेषामात्मनां गुणा जिनवर्धमाने वर्तन्त इति ज्ञानादीनां सहभावित्वनिबन्धना ये च प्रकारास्तैः सर्वैरपि कर्मावरणविगमदशायां जिने ज्ञानादयः सन्ति, ते च प्रकाराः सर्वविषयावभासनादय एव न तु मतिज्ञानत्वादय इति; यदि च सामान्यरूपेणान्यात्मगुणानां तत्र सद्भावेऽपि विशेषरूपेण स्वतोव्यावृत्तिलक्षणेन न सद्भावः, सोऽपि च गुणेषु सर्वदाऽवतिष्ठमानः सहभावित्वनिबन्धन एवेति विभाव्यते तदा सर्वात्मवृत्तिगुणवृत्तिसामान्याश्रयगुणानां सर्वप्रकारेण सहभावित्वप्रयोजकेनाधारत्वमेव समन्तसर्वाक्षगुणत्वम्, तच्च जिने समस्तीति; अथवा समन्ततः सर्वेऽक्षगुणा यस्य स समन्तसर्वाक्षगुणस्तम्, तथा च जिनवर्धमानस्यैवात्मनः सर्वे ज्ञानादयो गुणा अनावृताः सन्तः समन्ताज्जिनवर्धमाने वर्तन्त इति समन्तसर्वाक्षगुणत्वमुपपन्नम्, अस्मदाद्यात्मनां सर्वाक्षगुणा भावृतत्वान्न समन्तत इति भवत्येतदुत्कृष्टत्वनिमित्तत्वादुपास्यत्वप्रयोजकमिति / .. पुनः कीदृशम् ? निरक्षमिति-इन्द्रियवाचकमक्षपदमत्राक्षव्यापारपरम्, तथा चाक्षव्यापाररहितमित्यर्थः, तेन संसारे विहरमाणस्य जिनवर्धमानस्य चक्षुरादीन्द्रियसद्भावेऽपि न क्षतिः, तदानीं सर्वेन्द्रियविषयाणां रूप-रसादीनां केवलालोकेनैवालोकयतस्तस्य प्रयोजनाभावेन चक्षुरादीन्द्रियव्यापाराभावात् मुक्तौ तु निरक्षत्वमिन्द्रियरहितत्वमेव, अनन्तराभिहितधर्मसम्वलितस्य तस्योत्कर्षप्रयोजकत्वम्, अन्यथेन्द्रियव्यापाररहितत्वस्येन्द्रियरहितत्वस्य वा घट-पटादिजडसाधारणस्योत्कर्षानाधायकत्वेनोपास्यत्वप्रयोजकत्वं न भवेत्, सर्वाक्षगुणस्य निरक्षत्वमापा