________________ mm.in. 8 दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / तदुपासकानां प्राकृतिको बन्धो भवति, अव्यक्तं जिनवर्धमानमुपासतां पुनर्मुक्तिरेवाचिरेण सम्पद्यत इति तमेवाश्रयन्तु अव्यक्तचिन्तका इति व्यज्यते / पुनः कीदृशम् ? अव्याहतविश्वलोकमिति-न व्याहन्यते-आवरणेन विच्छिद्यत इति अव्याहतः, विश्वलोकः-समग्रलोकः, निखिलपदार्थ इति यावत्, अव्याहतो विश्वलोको यस्य सोऽव्याहतविश्वलोकस्तमव्याहतविश्वलोकम् , कर्मावरणरहितत्वेन सकलपदार्थज्ञम् ; अथवा शरीरसम्बन्धलक्षणोर्ध्वगमनस्वभावव्याघातकाभावाद् अव्याहतः-अप्रतिबद्धोर्ध्वगमनस्वभावोद्देश्यभूतः, विश्वलोकःसम्पूर्णधर्मास्तिकायाधर्मास्तिकायावच्छिन्नाकाशो यस्य सोऽव्याहतविश्वलोकस्तम. व्याहतविश्वलोकम्, मुक्तिधामोपगतमित्यर्थः, सर्वज्ञतया मुक्ततमा वा ये ईश्वरमुपासते तेषामप्ययमुपास्य इति ब्यज्यते / पुनः किम्भूतम् ? अनादिमध्यान्तम् आदिश्च मध्यं चान्तश्च आदिमध्यान्ताः, न विद्यन्ते आदि-मध्या-ऽन्ता यस्य सोऽनादिमध्यान्तस्तम् , द्रव्यार्थिकनयेनेदम् , जिनवर्धमानस्य परमात्मन उपयोगस्वरूपेण सर्वदावस्थायिनोऽनादिमध्यान्तत्वं घटते, यो हि उत्पद्यते विनश्यति च. तस्य य उत्पत्तिकालः स आदिः, यश्च स्थितिकालः स मध्यमः, यश्च विनाशकालः सोऽन्त इति, सर्वदाऽवस्थितिकालश्च नादि-मध्यान्तकालो भवतीति, मूल-स्कन्ध-शाखा-प्रशाखादिस्वरूपेणावस्थितस्य वृक्षादेरवयविनो देशत आदिमध्यान्तव्यवस्था भवति, यतो मूलं तस्यादिः, स्कन्धो मध्यं, शाखा-प्रशाखादिकं चान्त इति, निरवयवस्य त्वखण्डस्य परमात्मनो न देशतोऽपि तव्यवस्थेति भवति तथावैलक्षण्यमुत्कर्षाधायकम् , अनेन चानादि-मध्या-ऽत्तं निर्गुणं ब्रह्मोपासतां वेदान्तिनामप्युपास्यत्वमस्येति व्यज्यते / पुनः किम्भूतम् ? अपुण्यपापं पुण्यं च पापं च पुण्य-पापे, न विद्यते पुण्यपापे यस्य सोऽपुण्यपापस्तम् , पुण्य-पापरहितमित्यर्थः, पुण्यपापरहितस्य घटपटादिजडपदार्थगतस्य नोपास्यत्वप्रयोजकत्वमतः पुण्य-पापरहितात्मत्वमनेन विवक्षितमिति बोध्यम् / तृतीयपादस्य "स्यादिन्द्रवज्रा यदि तौ ज-गौ गः” इति लक्षणलक्षितत्वादिन्द्रवज्रात्वम् , प्रथम-द्वितीय-चतुर्थपादानां तु “उपेन्द्रवज्रा प्रथमें लघौ सा” इति लक्षणलक्षितत्वादुपेन्द्रवज्रात्वम्, उभयमिलनेन निष्पन्नस्वादुपजातिवृत्तमिदम् // 1 //