________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / घटते; अथवा एकाक्षरम्-ओङ्कारस्वरूपं यस्य भावस्वरूपप्रतिपादकत्वेन भावलिङ्गं स एकाक्षरभावलिङ्गः, तम् , जिनवर्धमानो हि नाम-स्थापना-द्रव्यभावभेदेन चतुर्धा, तत्र यस्य कस्यचित् जिनवर्धमान इति नाम क्रियते स नामजिनवर्धमानः, जिनवर्धमानस्य प्रतिकृतिः सद्भूताऽसद्भूता या स्थाप्यते सा स्थापनाजिनवर्धमानः, योऽसौ जीवो जिनवर्धमानस्वरूपेणोत्तरकालं परिणमिष्यति स द्रव्यजिनवर्धमानः, यश्च जिनवर्धमानो घातिज्ञानावरणीयादिकर्मचतुष्टयं सर्वथोन्मूल्याऽघातिकर्मचतुष्टयमुपभोगेन क्षपयितुं तीर्थादिक्रियां कुर्वन्नास्ते स भावजिनवर्धमानः, तस्य प्रतिपादक ओङ्कार इति, एतेनाकारोकार-मकारा रजोगुणादियुक्तानां ब्रह्म-विष्णु-रुद्राणां प्रतिपादकाः, तत्सङ्घटितमूर्तिश्चोङ्कारस्तुरीयस्य निर्गुणस्य सदाशिवस्य प्रतिपादकः, तं सदाशिवं शैवा ईश्वरबुद्धयोपासते, निर्विशेषितलिङ्गस्वरूपतया च लोके प्रसिद्धत्वान्महादेवस्तथाभूत एव पूज्यते, अतो जिनवर्धमानोऽपि विशिष्टलिङ्गस्वरूपतयोपवर्णितो विशिष्टस्य शुद्धेन सह कथञ्चिदभेदाच्छुद्धलिङ्गस्वरूपोऽपीति शैवानामप्युपास्य इति व्यज्यते / पुनः कीदृशम् ? अव्यक्तम् अस्मदादिप्रत्यक्षागोचरम् , तेन स्वसंवेदनप्रत्यक्षसर्वज्ञप्रत्यक्षविषयत्वेऽपि न क्षतिः, अस्मदादिप्रत्यक्षाविषयत्वस्य परमाण्वादिसाधारणत्वेऽपि स्वयम्भूत्वादिगुणसहकृतस्य तस्योपास्यत्वप्रयोजकोत्कर्षविशेषाधायकत्वं सम्भवति, अस्मदादिप्रत्यक्षागोचरगुणविशेषत्वं वाऽव्यक्तत्वम्, तस्य च परमाण्वाद्यगतत्वेनोत्कर्षविशेषाधायकत्वं सम्भवति' यथा परमाण्वादीनामस्मदादिप्रत्यक्षागोचरत्वेऽपि धर्मा-ऽधर्मयोरेवादृष्टत्वं तथेदमपि जिनवर्धमानस्यैवेति, प्राकृतिकवैकृतिकादिबन्धेषु येऽव्यक्तं प्रधानमुपासते तेषां प्राकृतिको बन्ध इति माझ्या आमनन्ति, अव्यक्तं-प्रधानमीश्वरबुद्धया चिन्तयतां दशमन्वन्तरसमय यावद् विगतज्वरत्वेनावस्थानम्, . “दशमन्वन्तराणीह तिष्ठन्त्यव्यक्तचिन्तकाः / बौद्धा दश सहस्राणि सहस्रं त्वाभिमानिकाः // 7 // " [ ] - इति वचनात् , बुद्धयहङ्कारादयः प्रकृतेय॑क्कीभवन्ति-आविर्भवन्तीति व्यक्त शब्दप्रतिपाद्याः, प्रकृतिस्तु मूलकारणं न कुतश्चित् प्रादुर्भवतीत्यव्यक्तशब्दप्रतिपाद्या