________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / व्यक्त्यनुगतसमानाकारपरिणामस्वरूपम् , ऊर्ध्वतासामान्यं च पूर्वापरपर्यायानुस्यूतं द्रव्यम्, प्रकृते आत्मत्वक्षणतिर्यक्सामान्येनात्मस्वरूपतया पूर्वापरतदीयपर्यायानुस्यूतजिनवर्धमानात्मकद्रव्येण व्यक्तिरूपतया च 'आत्मैवायं स एवायं जिनवधमानः' इत्येवं ज्ञायत इति, 'भनेकम्' इत्यनेनान्यतो व्यावृत्तस्वरूपत्वेन विशेषरूपत्वम् , 'एकाक्षरभावलिङ्गम्' इत्यनेनानुवृत्तस्वरूपत्वेन सामान्यरूपत्वमित्येवं सामान्य विशेषोभयस्वरूपत्वं तन्निमित्तं चैकानेकस्वरूपत्वं जिनवर्धमानस्योपदर्शयता सत्त्वं निष्टङ्कितम् , सामान्यस्वरूपत्वमनुगतबुद्धिविषयत्वेन विशेषस्वरूपत्वं व्यावृत्तिबुद्धिविषयत्वेन स्वत एब वस्तुनो न त्वतिरिक्तसामान्य विशेषलक्षणपदार्थसम्भवात् . तथाऽभ्युपगमस्य धर्मिकल्पनातो धर्मकल्पना लघीयसी' इति न्यायेन वस्तुन्येव सामान्यत्व-विशेषत्वोभयकल्पनेन पराहतत्वात् तदुक्तम् "स्वतोऽनुवृत्ति व्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः / परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति // 5 // " [अन्ययोगव्यवच्छेदद्वात्रिंशिका] इति / "अनेकमेकात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् / तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः // 6 // [अन्य० द्वा०]" इति च; अथवा एकाक्षरस्य भावः-परिणाम एकाक्षरत्वं यत्र स एकाक्षरभावः, अकारा-ऽकारा-ऽऽकारोकारमकाररूपाण्यनेकान्यक्षराणि ओङ्काराक्षररूपेण परिणमन्ते, एकाक्षरतां वोपयान्ति ओंकारे इति एकाक्षरभाव ओङ्कारः, स एव प्रतिपादकत्वेन लिङ्गं-चिह्न यस्य स एकाक्षरभावलिङ्गः, तम् , 'अर्हन , सिद्धः, आचार्यः, उपाध्यायः, मुनिः' इति पञ्च परमेष्ठिनः, पदैकदेशे पदसमुदायोपचारात् तत्राद्यस्यादिगतोऽकारो वाचकः द्वितोयस्याशरीरिणः सिद्धस्यादिगतोऽकारो वाचकः, तृतीयस्यादित आकारो वाचकः, चतुर्थस्यादिगत उकारो वाचकः, पञ्चमस्यादिगतो मकारो वाचकः, 'अ+अ+आ+उ+म्' इति पञ्चानां मेलनेन निष्पन्ने ओङ्कारे पञ्चपरमेष्ठिवाचकत्वम् , तथा च पञ्चपरमेष्ठिवाचकोङ्कारप्रतिपाद्यत्वं पञ्चपरमेष्ठयन्तर्गतस्य परमात्मनो जिनवर्धमानस्य सुतरां घटते, अथवा एकाक्षरम्-ओङ्कारस्वरूपं यस्य भावस्वरूपप्रतिपादकत्वेन