________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / 5 गच्छन्ति भगवदुपदिष्टोगमेनेत्यागमद्वाराऽखिलहिताहितमार्गप्रकाशत्वेन जिनवर्धमानोऽयं भवति भूतसहस्रनेत्ररूपस्तम्; यद्वा भूतानि-पूर्व जातानि, सहस्रं नेत्राणि यस्य स भूतसहस्रनेत्रस्तम् , अनादौ संसारे भगवानपि स्वर्लोकाधिपतिरिन्द्रो बभूवेति, अनेन यद् यद् विभूतिमत् सत्त्वं लोकेऽवलोक्यते तत्तद्रूपेणानादौ संसारे जात एव भगवानिति तत्तद्रूपेणापि स्तुत्योऽयमिति व्यज्यते; अथवा भूतः-प्रथमं जातः, सहस्रनेत्रः-इन्यो यस्य स भूतसहस्रनेत्रस्तम् , 'उपेन्द्र इन्द्रावराजः" इति कोशादिन्द्रस्य कनिष्ठभ्रातोपेन्द्रो विष्णुस्तद्रूपोऽयमिति ये विष्णुमीश्वरबुद्धयोपासते वैष्णवास्तेषामप्युपास्योऽयमिति व्यज्यते; यद्वा भूतसहस्रस्य-प्राणिसहस्रस्य नेत्रं यस्मिन् स भूतसस्रनेत्रस्तम् , सहस्रेत्युपलक्षणं सम्भवत्सङ्ख्यामात्रस्य, तेन सर्वेषां प्राणिनां यस्मिन्नाप्तत्वदृष्टिः संजाता, ये सर्वेऽपि प्राणिन आप्तत्वेन पश्यन्तीति यावत् , एतावता सर्वोपास्योऽयमिति व्यज्यते; यद्वा "भैरवो भूतनाथश्च' इत्यादिवचनाद् भूतनाथं शिवमित्यर्थः, एतेन शैवानामप्ययमुपास्य इति व्यज्यते / / पुनः किम्भूतम् ? अनेकमिति-एकस्य सत उत्पाद-व्ययावनेकरूपतामन्तरेण नोपपद्येते, न च तावन्तरेणोत्पाद-व्यय-ध्रौव्यलक्षणं सत्त्वं सम्भवतीतिपर्यायार्थिकनयेन पर्यायरूपत्वमेव वस्तुन इति पर्यायाणामनेकत्वादनेकरूपम् , प्रकृते गुण-गुणिनोः कथञ्चिदभेदात् केवलज्ञान-दर्शन-चारित्रैतद्गुणत्रयात्मकत्वेनानेकम , तथा धर्म-धर्मिणोः कथञ्चित्तादात्म्यसम्बन्धस्याभ्युपगमेनानन्तस्व-परपर्यायात्मकधर्मात्मकन्वेनानेकम् , एतेन साक्षात् परम्परया वा स्वसम्बन्धिस्व-पररूपाभ्यां समस्तमेव विश्वं व्याप्नोत्यसौ विषयतया केवलज्ञानादिरूपेण चेति व्यापकत्वाद् यदि हरिविष्णुरिति गीयते तदाऽयमपि विष्णुः, दशावतारादिशालिवेनानेकरूपत्वाद् यापास्यो विष्णुस्तदा सर्वदैवानेकरूपत्वात् कथं नायमुपास्य इति व्यज्यते / पर्यायदृष्टयोत्पाद-व्ययभाजनत्वेन ययाऽनेकत्वमस्य तथा द्रव्यार्थिकदृष्टया ध्रौव्यभाजनत्वेनैकत्वमप्यस्येत्याह एकाक्षरभालिङ्गमिति-एकः-अनेकानुगतः, अक्षरः-अविनाशी, यो * मावः-सामान्यात्मा तिर्यक्सामान्यरूप ऊर्ध्वतासामान्यरूपश्च, तदात्मनालिङ्गयते ज्ञायते इत्येकाक्षरभावलिङ्गस्तम् , तिर्यक्सामान्यं च विभिन्नदेशावस्थितानेक