________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / mmmmmmmmmmmmmmmmmmmmmm तथापि “तत् त्वमसि' [छान्दो. 6 / 817] इति वाक्ये तत्-त्वम्पदयोर्मायावच्छिन्नचैतन्याऽन्तःकरणावच्छिन्नचैतन्यशक्तयोर्जहदजहल्लक्षणया शुद्धचैतन्यप्रतिपादकत्ववत् स्वयम्भूशब्दस्य ध्रौव्यलक्षणनित्यत्वप्रतिपादकत्वम्. अत एव.. "स्वयम्भुरेष भगवान् वेदो गीतस्त्वया पुरा / __ शिवाद्या ऋषिपर्यन्ताः स्मारोऽस्य न कारकाः // 3 // " [ ] इत्यत्र वेदस्य नित्यत्वावगतये स्वयम्भुशब्दः प्रयुक्तः, जिनवर्धमानस्योपयोगलक्षणात्मसामान्यरूपेण नित्यत्वमपि वैशिष्टयावेदकं, क्षणिकविज्ञानसन्तानस्वरूपसुगततनयाभ्युपगतात्मस्वरूपतो व्यावर्तकत्वात् , उक्तं च यशोविजयोपाध्यायैर्महावीरस्तवप्रकरणे "आत्मा तु तादृगपि मुख्यतयाऽस्ति नित्यस्तगावतोऽव्ययतया गगनादिवत् ते / / चिन्मात्रमेव तु निरन्वयनाशि तत्त्वं कः श्रद्दधातु यदि चेतयते सचेताः // 4 // " इति / अनेन च पराभ्युपगतलोकपितामहब्रह्मरूढस्वयम्भूशब्दप्रतिपाद्यत्वेन ब्रह्मामेदोऽस्य ख्यापितो भवति, तथा चेश्वरत्वेन पितामहं चिन्तयतां पौराणिकानामप्ययमुपास्य इति व्यज्यते; यद्वा सु-सर्वातिशायि, यद् अयम् इष्टफलअनकं पुण्यकर्म, तीर्थङ्करनामकर्मेति यावत्, तत् स्वयम् , तत् भवते-प्राप्नोतीति स्वयम्भूस्तं तथा, तीर्थङ्करमित्यर्थः, “भूङः प्राप्तौ णिङ्' [सिद्धहेम० 3 / 4 / 19] इति वचनात् प्राप्तावपि भूधातुर्वर्तते पृषोदरादित्वान्मागमश्च; यद्वा स्वयम्आत्मनैव, परोपदेशस्य निरपेक्षतयेत्यर्थः, भवति-अवगततत्त्वः सम्पद्यते इति स्वयम्भूः, स्वयंसम्बुद्ध इत्यर्थः, तं तथा / पुनः कथम्भूतम् ? भूतसहस्रनेत्रमिति-भूतेषु-प्राणिषु, सहस्रनेत्र इवस्वर्लोकाधिप इन्द्र इवेति भूतसहस्रनेत्रः, तम्, यथा सहस्रनेत्र इन्द्र ऐश्वर्यशालित्वेन प्रागदिगधिपतित्वेन च प्राणिभिरुपास्यो भवति तथाऽयमपि भगवान एकदिक्पालाभेदाध्यासेन सर्वदिक्पालामेदाध्यासोऽस्मिन्नभिव्यज्यते; अथवा भूतानां-प्राणिनां सहस्रं भूतसहस्रं तस्य नेत्रं-नयनमिव, यथा नेत्रेण पुरोऽवस्थित वस्तु स्पष्टमवगच्छन्ति लोकास्तथा हितमिदमहितं चेदमित्येवं विभज्य स्पष्टमव