________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिशिका / 3 wwww द्वितीयान्तं 'जिनवर्धमानम्' इत्यस्य विशेषणम् , यतः 'जिनवर्धमानं स्तोष्ये' इत्यनेन जिनवर्धमानकर्मकस्तुतिक्रियाकर्तृत्वप्रकारकसिद्धसेनदिवाकरविशेष्यकप्रतीतो जातायामपि कीदृशं जिनवर्धमानमित्याकाङ्क्षोत्थितैव, अप्रकृष्टस्य स्तुतिकर्मत्वासम्भवात् , अतस्तत्प्रकर्षावगमकं विशेषणमुपादेयमेवेति / ___ "देवदत्तः स्वयं गच्छेत् त्वं वीक्षस्व स्वयं तथा / अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यते // " [ ] इति वचनात प्रथम-मध्यमोत्तमपुरुषेष्वात्मस्वविशेषेण स्वयंशब्दप्रयोगात् , "इदं रूप्यमिदं वस्त्रमिति यद्वदिदं तथा / असौ त्वमहमित्येषु स्वयमित्यभिधीयते // 1 // स्वयमात्मेति पर्यायौ तेन लोके तयोः सह / / प्रयोगो नास्त्यतः स्वत्वमात्मत्वं चान्यवारकम् // 2 // " [ ] इत्यादिवचनात् स्वयम्भुवमित्यस्य आत्मभुवमित्यर्थः; "भूः सत्तायाम्" इति धातुपाठात् प्रकृते भूधातोः सत्त्वमेवार्थः, "उत्पाद-व्यय-ध्रौव्ययुकं सत्" [ तत्त्वार्थ० अ० 5, सू० 29 ] इति सूत्राद् उत्पाद-व्यय-ध्रौव्ययुक्तत्वं सत्त्वम्, तत्र स्वयंशब्दार्थानुगमनाद् आत्मना यदुत्पद्यते, आत्मना यद् विनश्यति, आत्मना यद् ध्रुवं तत् स्वयम्भूशब्दवाच्यमिति, प्रतिक्षणं वस्तुमात्रं केनचिद् रूपेणोत्पद्यते केनचिद् रूपेण विनश्यति केनचिद् रूपेणावतिष्ठत इति सद् भवति, जिनवर्धमानोऽपि वस्तुसामान्यान्तर्गतः केनचिद् रूपेणोत्पद्यमानत्वात् केनचिद् रूपेण विनश्यमानत्वात् केनचिद् रूपेण स्थीयमानत्वात् सन् स्यादेव, तावताऽन्यवस्तुभ्यो वैशिष्टयं न लभ्यत इति तद्विशेषणसामर्थ्यात् स्तुतियोग्यत्वं नायाति, अत: 'सन्तम्' इत्यनुक्त्वा ‘स्वयम्भुवम्' इत्युक्तम् , राग-द्वेषादिशत्रुगणमुक्तात्मस्वरूपस्य जिनवर्धमानस्य तदवस्थायां पूर्वक्षणे वर्तमानक्षणेऽनागतक्षणे चोपयोगलक्षणात्मकात्मकात्मसामान्यरूपेणैव पूर्वक्षणवर्तित्वविशिष्टात्मरूपेण विलयो वर्तमानक्षणवर्तित्वविशिष्टात्मरूपेणोत्पादो निर्विशेषितात्मस्वरूपेणावस्थानमित्युत्पादव्यय-ध्रौम्यावच्छेदकात्मनो विशेषणविनिर्मोकेण विशेष्यीभूतस्यात्मसामान्यरूपसयोत्पाद-व्यय-ध्रौव्यलक्षणसत्त्वमित्यन्यस्माद् व्यावर्तकत्वेन भवति तद्विशेषणस्य स्तुत्युपयुक्तवैशिष्ट्यावेदकत्वम्। यद्यप्युक्तदिशोत्पादादित्रयावच्छेदकत्वमात्मसामान्यस्य