________________ दवाकर कृता किरणावलीकलिता प्रथमा द्वात्रिंशिका / क्व श्रीमत्सिद्धसेनस्तुतितिरमला गूढतत्त्वा प्रसन्ना ? क्वाहं व्याख्यातुकामो विगलितधिषणः शक्तिरितोक्तियुक्तः ? / सत्यप्येवं विवृण्वन् स्तुतिततिमिमकां सूरिलावण्यनामा न स्यां हास्यो बुधानां तदनुसृतपथं यद् यथाशक्ति यामि ॥४॥-स्रग्धरा प्रशिष्यपं० सुशीलाय कृतेऽत्र कृतिकर्मणि / / विवृतौ किरणावल्यां सहायाऽस्तु गुरोः कृपा // 5 // धीमान् भगवान् श्रीमान् सिद्धसेनदिवाकर 'एकविंशतिमेदां द्वात्रिंशिकां चिकीर्षुस्तदन्तर्गतां प्रथमां द्वात्रिंशिकामारभमाणो विघ्नविनाशाय शिष्टाचारपरम्पराप्रतिपालनाय च त्रिभिः लोकैश्चरमतीर्थङ्करप्रणामपूर्वकं तत्स्तुति प्रतिजानीते स्वयम्भुवं भूतसहस्रनेत्र मनेकमेकाक्षरभावलिङ्गम् / अव्यक्तमव्याहतविश्वलोक___ मनादिमध्यान्तमपुण्यपापम् // 1 // [उपजातिः] समन्तसाक्षगुणं निरक्षं स्वयम्प्रभं सर्वगतावभासम् / अतीतसंख्यानमनन्तकल्प___ मचिन्त्यमाहात्म्यमलोकलोकम् // 2 // [उपेन्द्रव ज्रा] कुहेतु-तकॊपरतप्रपञ्च सद्भावशुद्धाप्रतिवादवादम्। प्रणम्य सच्छासनवर्धमानं स्तोष्ये यतीन्द्रं जिनवर्धमानम् // 3 // उपजातिः / त्रिभिर्विशेषकम्] स्वयम्भुवमिति-स्वयं भवतीति स्वयम्भूस्तं स्वयम्भुवम्, एतदादि सर्व 1 अधुनोपलभ्यमानेकविंशतिद्वात्रिंशिकापेक्षयेत्थमभिधानम् /