________________ दिवाकरकृता किरणावलीकलिता प्रथमा द्वात्रिशिका / उपजातिवृत्तेनैकत्रिंशत् पद्यानि रचितानि, अथाद्यस्तुतिसमाप्तिसूचनाय शिखरिणीवृत्तेन द्वात्रिंशत्तमपद्यं प्रश्नाति जगन्नैकावस्थं युगपदखिलानन्तविषयं .. यदेतत् प्रत्यक्षं तव न च भवान् कस्यचिदपि / अनेनैवाचिन्त्यप्रकृतिरससिद्धेस्तु विदुषां समीक्ष्यैतद् द्वारं तव गुणकथोत्का वयमपि // 32 // [शिखरिणी] जगन्नैकावस्थमिति / हे जिन ! यदेतद् युगपदखिलानन्तविषयं नैकावस्थं जगत् तव प्रत्यक्षं, च [पुनः] भवान् कस्यचिदपि न, अनेनैव तु विदुषाम् अचिन्त्यप्रकृतिरससिद्धरेतद् द्वारं समीक्ष्य वयमपि तव गुणकथोत्का इत्यन्वयः / यदेतत् लोकप्रसिद्धम् , युगपत् समकालम् , अखिलानन्तविषयम् अखिलं च तदनन्तविषयं चाखिलानन्तविषयम् , अनन्तविषयमित्यत्र अनन्ता विषया उपभोगसाधनपदार्था यस्मिंस्तदनन्तविषयमिति बहुव्रीहिः, यद्वा अखिला:-सकल. स्वपर्यायोपेताः, अनन्ता विषया यत्रेति समासः / नैकावस्थम् एकावस्थं, न भवतीति नेकावस्थमनेकावस्थमिति यावत् , ईदृशं जगत् विश्वम् , हे जिन ! तव प्रत्यक्ष प्रत्यक्षज्ञानविषयः, च पुनः, भवान् त्वम् , कस्यचिदपि केवलपलोकरहितस्य कस्यापि प्रमातुः, न लिङ्गविपरिणामेन प्रत्यक्ष इति सम्बध्यते, प्रत्यक्षविषयो नेत्यर्थः, अनेनैव यदि भवानस्मादृशां प्रत्यक्षस्तदा तु दर्शनेनापि अचिन्त्यप्रकृतिरससिद्धिं लभेमहि, अपितु नेत्यनन्तरोपदर्शितहेतुना, तु पुनः, विदुषां पण्डितानाम् , अचिन्त्यप्रकृतिरससिद्धेः, अचिन्त्या प्रकृतिः स्वभावो यस्य तादृशो यो रसः-भवद्विषयक आनन्दस्तस्य सिद्धेः-निष्पत्तेः, यद्वा अचिन्त्यप्रकृतिः-अचिन्त्यस्वरूपो रसः-आनन्दो यत्र तादृश्याः सिद्धेः-मोक्षस्य, एतद् द्वारं जिनगुणस्तुतिलक्षणं द्वारम् , समीक्ष्य सम्यक् परिभाव्य, वयमपि अस्मत्प्रमुखा जिनभक्ता अपि, तव जिनस्य, गुणकथोत्काः गुणवर्णनोत्कण्ठिता इत्यर्थः / “रसै रुद्रश्छिन्ना यमनसभला गः शिखरिणी" इतिलक्षणलक्षितत्वात् शिखरिणी वृत्तम् // 32 //