________________ श्रीसिद्धसेनदिवाकरप्रणीता गुरु-लाघव-संदिग्धविपरीताः प्रतिक्रियाः / लघ्वसंदिग्धविज्ञानं त्वास्यदुष्टस्य सिध्यति // 10 // द्रव्यसत्त्वादिनानात्वं नानेतिसममात्मनः / विषयेन्द्रियचेतःस्थमनेनाहमनीतवान् // 11 // बौद्धमध्रुवमद्रव्यं सांख्यं काणादमन्यथा / लोकः पुरुष इत्येतदवक्तव्यं शरीरवत् // 12 // निमित्तेश्वरकर्तारः प्रकाशनृपशिल्पिवत् / यथेष्टसाधनोत्कर्षविशेषापायवृत्तयः // 13 // स्वभावोऽर्थोऽन्तराभावनियमाव्यभिचारतः / इष्टतोऽन्यदनेनोक्ता देश-कालसमाधयः // 14 // लक्ष्य-लक्षणयोरेवं देश-धर्मविकल्पतः / सदादिप्रतिमेदाच्च निवप्रतियोजनाः // 15 // चैतन्य-बुद्धयोविच्छेदः परिणामेष्वसंश्रयात् / न विकल्पान्तरं भोक्तुरनेनोक्तं सुखादिवत् // 16 // शरीरविभुतातुल्यमानतागुण-दोषतः / / संसारप्राप्त्यभिव्यक्तिर्विकल्पाः कारणात्मनः // 17 // गुणप्रचयसंस्कारवृत्तयः कर्मवृत्तयः / अनाद्यन्तरावस्था यथा चेतरयोगतः // 18 // भूतप्रत्येकसंयोगसामान्यार्थान्तरात्मकम् / पञ्चधा बहुधा वाऽपि कायाघेकादिवेन्द्रियम् // 19 // जाति-प्रत्यय-सामान्य-चर-स्थिरचरं मनः / उभयं विभवा देह-लोकयोरनुगामि च // 20 // 5