________________ विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका प्रतीत्य प्रतिसंख्याय द्रव्यव्यञ्जनपर्ययान् / समग्रविकलादेश-निषेधाभ्यां च साधयेत् // 31 // 20. विशतितमी दृष्टिप्रबोधद्वात्रिंशिका / उत्पाद-विगम-ध्रौव्य-द्रव्य-पर्यायसंग्रहम् / कृत्स्नं श्रीवर्धमानस्य वर्धमानस्य शासनम् // 1 // अपायापोहतोऽन्योऽन्यं निघ्नतो वा तदेव वा / प्रन्थार्थः स्व-परान्वर्थो विध्युपायविकल्पतः // 2 // वाचिकित्सितमानाध्वमणिरागादिभक्तिवत् / नानात्वैक्योभयानुक्तिर्विषमं सममर्थतः // 3 // प्रमाणान्यनुवर्तन्ते विषये सर्ववादिनाम् / संज्ञाभिप्रायमेदात् तु विवदन्ति तपस्विनः // 4 // न यथार्थापरिज्ञानाद् दोषशान्तिर्न चाऽन्यथा / प्रकोपसमसामान्याव्यभिचाराच्च तद्वताम् // 5 // येन दोषा निरुध्यन्ते ज्ञानेनाचरितेन वा / स सोऽभ्युपायस्तच्छान्तावनासक्तमवेद्यवत् // 6 // यथाप्रकारा यावन्तः संसारावेशहेतवः / तावन्तस्तद्विपर्यासा निर्वाणावासिहेतवः // 7 // सामान्यं सर्वसत्तानामवश्यं जन्मकारणम् / शरीरेन्द्रियभोगानामविशिष्टं सद् विशिष्यते // 8 // विकल्पप्रभवं जन्म सामान्यं नातिवर्तते / हेतावपचिते शेषं किं परिज्ञाय वा न वा // 9 //