________________ श्रीसिद्धसेनदिवाकरप्रणीता परिणामफलं कर्म परिणामस्तदात्मकः / .. तयोरन्योऽन्यसादृश्यं युक्तं नानैकधर्मतः // 20 // आयुःकालफलं सौम्यपरिणामान्न भियते / गत्याद्यर्थपृथग् नाम मूलोत्तरनिबन्धवत् // 21 // . स्थित्यन्तमन्यवैफल्याद् यथार्थप्रतिबोधकम् / तौदारिकदेहाभ्यामन्यथातिप्रसङ्गतः // 22 // निम्रन्थसंयता रागाद्यनुबन्धस्थितिक्रमात् / , . द्विविधा एव सामर्थ्यादनन्ता वाऽपि सिद्धवत् // 23 // प्रयोगविश्रसा कर्म तदभावस्थितिस्तथा / लोकानुभाववृत्तान्तः किं धर्माधर्मयोः फलम् // 24 // आकाशमवगाहाय तदनन्या दिगन्यथा / तावप्येवमनुच्छेदात् ताभ्यां वाऽन्यमुदाहृतम् // 25 // प्रकाशवदनिष्टं स्यात् साध्ये नार्थस्तु नः श्रमः / जीव-पुद्गलयोरेव परिशुद्धः परिग्रहः // 26 // इन्द्रियाण्यात्मलिङ्गानि त्वगादिनियमः पुनः / निकामविषया व्याला जिनाश्चैवमतीन्द्रियाः // 27 // बुद्धयपोहत्तमःसत्त्वं जातु भव्ये न युज्यते / तीबमोहानुबन्धस्तु स्यात् कश्चित् कस्यचित् कचित् // 28 // सत्त्वोच्छेदभयं तुल्यमनुक्तेऽप्यपवर्गतः / न च जन्ममहादोषमानन्त्यात् तु न बध्यते // 29 // नेन्धनानन्त्यतो वहिश्चीयते नावचीयते / सन्मानं वा तथाऽन्योऽन्यगतयः स्कन्धपुद्गलाः // 30 //