________________ अष्टादशी द्वात्रिंशिका 629 पिपासाविषयोत्सेधो मृदूत्तानरया वरम् / न संमिथ्यादिगम्भीरं चपलायति यादसाम् // 20 // अज्ञातकरणं जन्म वपुःसंवित्प्रकारयोः / त्वत्प्रसादार्जनोपायो विषयेन्द्रियसंवरः // 21 // यद्यज्ञान-क्रिये स्यातां स्याद् ज्ञान-समयोः शिवः / न हि मानादिवृत्तित्वात् पृथक् संवित्क्रमाः कथाः // 22 // ममेदमहमस्येति समानं मान-लोभयोः / चतुष्कं युगपद् वेति यथा जन्मविशेषतः // 23 // ममेदमिति रक्तस्य न नेत्युपरतस्य च / भाविको ग्रहण-त्यागौ बहुसाराल्पफल्गुषु // 24 // अभिषिक्तस्य संन्यासक्रमात् पाश्चात्यदर्शनम् / ' शून्यैकविकृताभ्यासो रागिणां तु यथाश्रयम् // 25 // अनाघातास्पदं द्विष्टमनुकूलैः प्रसादयेत् / निमित्तफलदारुण्यविवेकेभ्यश्च रक्षयेत् // 26 // सुख-दुःखरसैर्भेयं व्यक्तोपनतकारणैः / प्रसादयेदुपाख्यानैः स्वैरासनमुखागतैः // 27 // अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् / दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे // 28 // यदनासेवितं यस्य सेवितं वा स साधयेत् / तच्छेषानुपरोधेन प्रतिरूपार्पितं तपः // 29 / / यदुत्सृष्टमयत्नेन पुनरेष्यं प्रयत्नतः / तत्साधनं वा तादृक्षं न हि सोपधयो बुधाः // 30 //