________________ श्रीसिद्धसेनदिवाकरप्रणीता नाहमस्मीत्यभावो वा भावो वाऽभ्युपगम्यते / प्रपञ्चोपरमः शान्तिरव्युच्छित्तरशून्यता // 20 // द्वेषोद्वेगफलं दुःखं सङ्गस्वादुफलं सुखम् / / माध्यस्थ्यं तत्प्रतीकारः किन्तु दुःखेन यत् सुखम् // 21 // न दुःखकारणं कर्म तदभावाय वोचमः / दृश्यते व्यभिचारश्चाप्यहो मोहविभूतयः // 22 // पुण्यं सुखात्मकं जन्म तद्विशेषो विशिष्यते / कृतार्थेनापि चोपेयमवश्यं नातिहेतवः // 23 // प्रोत्या विषया जातिः सात्मकं कल्पशोभना / तेषामर्थवशात् साम्यमिति धर्मोऽप्यधर्मवत्.॥२४॥ पुण्यमेव निबध्नन्ति श्वादयोऽप्यविशेषतः / आहारादिषु तद्वत्तरभिज्ञस्तु विशिष्यते // 25 // प्रतिमाभिग्रहास्तीवाः परिज्ञानविरोधिनः / / प्रपञ्चाबारवादस्तु मिथ्यामानादिवृत्तयः // 26 // यथा गदपरिज्ञानं नालमामयशान्तये / / अचारित्रं तथा ज्ञानं न बुद्धयवसायमात्रेण // 27 // अरण्युष्माग्निविज्ञानं वैराग्यमुपजायते / तदभ्यासफलो योगो न पापाय न संवरः // 28 // कर्माश्रवविपाकाथै वर्ण्यन्ते जीवजातयः / तुल्यं ह्यधिगतार्थस्य जीवाजोवप्रयोजनम् // 29 // निदानाभ्याससाफल्यं जन्मान्तरगतस्य चेत् / ज्ञानेश्वर्य सुखाभ्यासे निदानेभ्यस्तपःश्रमः // 30 //