________________ सप्तदशी द्वात्रिंशिका नान्योऽन्यमनुवर्तेते कृताभ्युपगमेतरौ / / तुल्यदोषगुणस्थानौ न कषायक्रमोऽप्यतः // 9 // कषायचिह्न हिंसादि प्रतिषेधस्तदाश्रयः / अपायोद्वेजनो बालो भीरूणामुपदिश्यते // 10 // हिंसादिवत् कषायेभ्यो न जन्म-मरणापदः / निमित्तान्तरहेतुत्वाद् गुणतस्तूपचर्यते // 11 // . कल्पाकल्पमतो द्रव्यमचिन्त्यं सर्पिरादिवत् / / दोषप्रचयवैषम्यादातुरस्तु परीक्ष्यते // 12 // एकमूर्तिः परीणामः शुद्धिराचारलक्षणम् / गुणप्रत्येकवृत्तानां पुरुषाशयशक्तितः // 13 // क्रोध-जिह्म-परिष्वङ्ग-मान-वेदाम्बुमक्षयाः (1) / युगपद् वा क्रमाद् विद्याद् यावद् यत्रानुविध्यते // 4 // क्षयो नाप्रशमस्यास्ति संयमस्तदुपक्रमः / दोषैरेव तु दोषाणां निवृत्तिर्मारुतादिवत् // 15 // दोषेभ्यः प्रव्रजन्त्यार्या गृहादिभ्यः पृथग्ननाः / परानुग्रहनिम्नास्तु सन्तस्तदनुवृत्तयः // 16 // तुल्यातुल्यफलं कर्म निमित्ताश्रवयोगतः / / यतः स हेतुरन्वेष्यो दृष्टार्थो हि न तप्यते // 17 // मनसोऽपैति विषयाद् मनसैवातिवर्तते / ... किमेवं बहुरल्पं. वा शरीरे बहिरेव वा // 18 // न ममत्वादहङ्कारस्तस्मात् तु ममता मता / संकल्पाव्यभिचारित्वात् तस्मिन्नेवाशिवास्पदम् // 19 //