________________ 624 सिद्धसेनदिवाकरप्रणीता संज्ञासामान्यपयर्यायशब्दद्रव्यगुणक्रियाः / एतेनोक्ताः पृथक् चेति व्यवहारविनिश्चयः // 31 // न नाम तत्त्वमेवैतन्मिथ्यात्वापरबुद्धयः / न चार्थप्रतिषेधेन न सिद्धार्थश्च कथ्यते // 32 // 17. सप्तदशी द्वात्रिंशिका / न दुःखेन विरुध्येते धर्माधर्मो सुखेन वा / / प्रत्ययाव्यभिचारित्वात् स्व-परोभयवृत्तिषु // 9 // देश-कालनिमित्तानि निमित्तान्यनियोगतः / नियोगतो वा तत्सिद्धौ न वाऽध्यात्मविशेषतः // 2 // सुव्रतानि यमाः वृत्तं यथाध्यात्मविनिश्चयम् / दीक्षाचारस्तु शैक्षाणां वर्मस्थैर्यानुवृत्तये // 3 // अपुण्यप्रतिषेधो वा व्रतं पुण्यागमोऽपि वा / युगपत् क्रमशो वेति विपक्षोरुभयं भयम् // 4 // व्रताभ्युपगमः शुद्धः परिणामो न नेष्यते / तदानन्तर्यवृत्तिस्तु मिथ्यादृष्टिर्निवार्यते // 5 // न मिथ्यादर्शनात् पापं न सम्यग्दर्शनाच्छुभम् / न च नेति कवायाणां तद्वृत्त्यव्यतिरेकतः // 6 // क्षयवृद्धिः कषायाणां मिथ्यादृष्टेरसंक्रमात् / वैषम्यलक्षणो बन्धस्तदायस्तु विकल्पतः // 7 // . मिथ्यादृष्टेरभिप्रायाः पञ्च चकक्षणाश्रवे / कायिकादिक्रियाचारः पापमेवेत्यसंशयम् // 8 //