________________ 623 षोडशी नियतिद्वात्रिंशिका तुल्यप्रसङ्गो नानात्वे तुल्यनैकेन बाध्यते / अकस्मात् कारणावेशौ हेतुधर्माविशेषतः // 20 // स्पर्शनादि-मनोऽन्तानि भूतसामान्यजातिमान् / मनोहन्नियतं द्रव्यं परिणाम्यनुमूर्ति च // 21 // स्पर्शेकविषयत्वादिस्तत्त्वान्ताः क्रमजातयः / अरूपादनभिव्यक्त मेदाः कृष्णाभिजातयः // 22 // यथा दुःखादिनिरयस्तिर्यक्षु पुरुषोत्तमाः / रक्तायामजनायां तु सुखजा न गुणोत्तराः // 23 // हिंसाविद्याभिचारार्थः पूर्वान्ते मध्यमः शमः / सम्यग्दर्शनभावान्ताः प्रतिबुद्धस्त्वयोजितः // 24 // न चोपदेशो बुद्धेः स्याद् रवि-पङ्कजयोगवत् / तत्त्वं च प्रतिबुद्धयन्ते तेभ्यः प्रत्यभिजातयः // 25 // ... समानाभिजनेष्वेव गुरुगौरक्मानिनः / स्वभावमधिगर छन्ति न ह्यग्निः सममिध्यति // 26 // प्रवृत्त्यन्तरिका व्याजविभङ्गस्वप्नसंभवात् / न जात्यः संर नृतेरुक्तं सङ्करोऽन्तरिकान्तजाः // 27 // सुरादिक्रम एकेषां मानसा ह्युत्क्रमक्रमात् / सुख-दुःखविक-पाच्च खण्डिर्यानोऽभिजातयः // 28 // व्योमावकाशो नान्येषां कालो द्रव्यं क्रिया विधिः / सुख-दुःखरजोधातुर्जीवाजीव-नभांसि च // 29 // अनुमानं मनोवृत्तिरेन्वयनिश्चयात्मिका / त्रैकाल्याङ्गादिवृत्तान्ता हेतुरव्यभिचारतः // 30 //