________________ 622 षोडशी नियतिद्वात्रिंशिका पृथिव्या नावरुध्येत यथा वा राजतक्रियाः / गुणानां पुरुषे तद्वदहं कर्तेत्यदःकृते // 9 // . सुदूरमपि ते गत्वा हेतुवादो निवर्त्यति / न हि स्वभावानध्यक्षो लोकधर्मोऽस्ति कश्चन // 10 // प्रवर्तितव्यमेवेति प्रवर्तन्ते यदा गुणाः / अथ किं संप्रमुग्धोऽसि. ज्ञान-वैराभ्यसिद्धिषु // 11 // धर्माद्यष्टाङ्गता बुद्धेर्न विरोधकृते. च यैः / ' चक्षुराद्यनिमित्तत्वाद् वितथप्रत्ययादपि // 12 // असतो हेतुतो वेति प्रतिसन्धौ च विग्रहः / असंस्तु हेतुर्थीमात्रं कर्तेति च विशिष्यते // 13 // भङ्गुरश्रवणाद्यर्थसंविन्मात्रे निरात्मके / रागादिशान्तौ यत्नस्ते कथं कस्य किमित्ययम् // 14 // कर्मजः प्रत्ययो नाम कर्म च प्रत्ययात्मकम् / तत्फलं निरयाद्यश्च न च सर्वत्र विस्मृतः // 15 // ज्ञानमव्यभिचारं चेज्जिनानां मा श्रमं कृथाः / अथ तत्राप्यनेकान्तो जिता: स्मः किन्तु को भवान् // 16 // एकेन्द्रियाणामव्यक्तेरजात्यन्तरसङ्गतौ / व्यक्तानां च तदादौ का रागादिप्रविभक्तयः // 17 // न संसरत्यतः कश्चित् स्व-परोभयहेतुकम् / अभिजातिविशेषात् तु मिथ्यावादमुखो जनः // 18 // चैतन्यमपि नः सत्त्वो मोहादिज्ञानलक्षणः / तदादि तद्वत्संबन्यो मिथ्याराशिः प्रवर्तते // 19 //