________________ सिद्धसेनदिवाकरप्रणीता 621 समविज्ञानयोस्तद्वद् वेद्ये कान्तमतः शिवम् / श्रोतःप्राप्त्यादिरस्यास्तु विकल्पोऽणिवह्निवत् // 30 // एकचित्तेऽपि वा कृत्स्नदुःखज्ञानोपपत्तितः / ग्राममोहक्षमोदर्कः शासनप्रणयो मुनेः // 31 // 16. षोडशी नियतिद्वात्रिंशिका / नित्यानन्तरताव्यक्तिसुख-दुःखाभिजातयः / स्वभावः सर्वसत्त्वानां पयःक्षोराङ्कुरादिवत् // 1 // धर्माधर्मात्मकत्वे तु शरीरेन्द्रियसंविदाम् / कथं पुरुषकार: स्यादिदमेवेति नेति वा // 2 // शरीरेन्द्रियनिष्पत्तौ यो नाम स्वयमप्रभुः / तस्य कः कर्तृवादोऽस्तु तदायत्तासु वृत्तिषु // 3 // धर्माधर्मी तदाऽन्योऽन्यनिरोधातिशयक्रियौ / देशाद्यपेक्षौ च तयोः कथं यः कर्तृसम्भवः // 4 // यत्प्रवृत्त्योपमर्दैन वृत्तं सदसदात्मकम् / तद्वेतरनिमित्तं वेत्युभयं पक्षघातकम् // 5 // न दृष्टान्तकृतासक्तेः स्वातन्त्र्यं प्रतिषिध्यते / अनिमित्तं निमित्तानि निमित्तानीत्यवारितम् // 6 // विश्वप्रायं पृथिव्यादिपरिणामोऽप्रयत्नतः / विषयस्तत्प्रबोधस्ते तुल्ये यस्येति मन्यते // 7 // नोक्ताभ्यां सह नोत्पादात् सममध्यक्षसंपदि / विनाशानुपपत्तेश्च भोज्य-भक्ष्यविकल्पतः // 8 //