________________ 620 पञ्चदशी बौद्धसन्तानद्वात्रिंशिका धर्मवद् विषयेभ्योऽपि यदा विज्ञानसंभवः / / संस्कारेभ्यस्तदा जन्म किं तस्य कुरुते क्षमा // 19 / / न पूर्वा न परा कोटिः विद्यते वाक्फलं मतेः / पूर्वविप्रतिषेधस्तु हेतुप्रत्ययसम्भवात् // 20 // अहेतु-प्रत्ययनयं पूर्वापरसमाभवम् / विज्ञानं तत्समुत्थं कः संव्यवस्येद् विचक्षणः // 21 // दर्पणस्थमिव प्रज्ञामुखबिम्बमतामयम् / तत्समुत्थं च मन्यन्ते तद्वत्प्रत्ययजन्मनः // 22 // न सामग्रीस्वभावोऽयमतो नाज्ञानभेदतः / स्वप्नोपलब्धस्मरणं निवृत्तिश्च न नेत्यपि // 23 // न चानिष्टप्रयोगो नः कुशलप्रतिपत्तिवत् / .. मन्यमानो हि दोषं वा गुणं वा परिकल्पयेत् // 24 // पटहध्वनिवल्लोकः कल्पनामनुवर्तते / यतः स्वभावो भावो वा तस्य वक्तुं न युज्यते // 25 // न चोपदेशवैफल्यं रूपविज्ञानजन्मवत् / दुःखमुत्पद्यते तत्य स्वाहानमयुक्तिवत् // 26 // न चास्यागन्तुसंक्लेशः शुद्धिर्वा भक्तयस्त्विमाः / स्मृतिसङ्गसमाः किन्तु तेजस्यरणिवृत्तिवत् // 27 // चित्तचारवशात् सङ्गः स्मृतिवन्न विरुध्यते / संकारायतनापेक्ष निरोधापत्त्यनन्तरम् // 28 // . अङ्कुरव्यक्तिनिष्पत्तिश्चेतःसत्त्वस्य तत् कथम् / अविद्या-तृष्णयोर्यद्वन्न नानात्वं न चैकता // 29 //